________________
२४
आचारसारे
स्पर्शनादिमतिज्ञानावृत्तिवीर्यान्तराययोः। क्षयोपशमजं नाना भेदमेतदुदाहृतम् ॥ ३३ ॥ श्रुतं मतिगृहीतार्थशब्दैरन्यार्थबोधनम् । धूमादेः पावकादेर्वा बोधोऽग्नेरग्निशब्दतः ॥ ३४॥ तत्पर्यायाक्षरपदसंघातप्रतिपत्तिका। अनुयोगः प्राभृतप्राभृतं च प्राभृतं कमात् ॥ ३५॥ वस्तुपूर्व समासाश्चामीषामिति समन्वितम् । श्रुतं विकल्पविंशत्या स्वान्तस्थान्यविकल्पया ॥३६॥ श्रुतावरणवीर्यान्तरायमन्दोदयाच्छुतम् । स्यादसंख्यजगन्मात्रं पर्यायादिप्रभेदतः ॥ ३७॥ मूर्त्तमर्थ मितं क्षेत्रकालभावैरवस्फुटम् । मितैर्दधात्यवधिर्बोधो भवगुणोद्भवः ॥ ३८॥ सुरनारकपर्याप्तभवजः प्रथमोऽपरः। मर्त्यतिर्यक्षु सम्यक्त्वगुणादीनां विशेषजः ॥ ३९ ॥ स्याद्देशपरमसर्वावधिभेदत्रयोऽवाधिः । सामान्यस्तत्र देशावाधः स्याहुणभवोद्भवः॥४०॥ शेषौ चरमांगमुनर्गुणजौ प्रतिपात्यपि । तत्र देशावधिोधो शेषावप्रतिपातिनौ ॥४१॥ वर्द्धमानानुगावस्थितेतरप्रविकल्पतः।। षट्प्रकारोऽप्यसंख्यातलोकमात्रो विशेषतः ॥४२॥ सुरनारकतीर्थेश्वरादौ सर्वांगसंभवः । अन्येष्वंगप्रशस्ताप्रशस्तचिह्नभवोऽवधिः ॥४३॥ धर्मायां योजनं कोशाद्धीनं तत्क्रमशोन्तमा। यावत्पृथ्वी मतं क्षेत्रमवधिर्निरेयेष्विति ॥४४॥ तिर्यक्ष्योघजघन्यादातेजोलंभान्मतोऽवधिः। नरेष्वोपविकल्पोधो यथायोग्यं भवेदयम् ॥ ४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org