SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ तृतीयाधिकारः। प्रीतिर्जिनागमे वत्सलत्वं संघे चतुर्विधे। प्रमोदितोपकारित्वं चोपकारानपेक्षया ॥६४॥ जैनानापद्गतांस्तस्मादुपकुर्वन्तु सर्वथा । यः समर्थोऽप्युपेक्षेत सः कथं समयी भवेत् ॥ ६५॥ त्रिरत्नैरात्मनः सम्यग्भावनं स्यात्प्रभावनम् । सद्धर्मस्य प्रकाशो वा सम्यग्ज्ञानादिभिर्गुणैः ॥६६॥ तेन ज्ञानप्रभावेन महताऽनशनादिना । महापूज्यादिभिश्चोच्चैः कर्त्तव्या समयोन्नतिः ॥ ६७ ॥ जडात्मा शक्तियुक्तोऽपि यः सद्धर्मप्रकाशनम् । कुर्यान्न चेदसौ रिक्तो महीभारो नराधमः॥६८॥ जिनबिंबावलोकादिनिसर्गोऽल्पप्रयासतः। ज्ञेयश्चाधिगमस्तत्त्वविचारचतुरा मतिः॥ ६९ ॥ संक्षिपर्याप्तभव्यस्य लब्धियुक्तस्य जाग्रतः । ज्ञानोपयोगिनो हेतू सम्यक्त्वाप्तेर्मताविमौ ॥ ७० ॥ दृङ्मोहोपशमध्वंसक्षयोपशमकारणैः। भवछेदनिदानाचं दर्शनं त्रिविधं विदुः ॥७१॥ दर्शने निर्मला वृत्तिर्ज्ञानचारित्रसंपदः । पदे मुक्तिरमादर्श दर्शनाचार ईरितः॥ ७२ ॥ एतद्देवनरेश्वरामृतपदश्रीवश्यकृद्दर्शनं किं चानंतभवान्तकृत्परमतत्पोन्मेषपूतात्मनः। कांतासु त्रिषु भावनादिषु महीष च वंशादिके नोत्पत्तिर्विकलन्द्रियैककरणे बद्धायुषोऽप्यंगिनः ॥ ७३ ॥ ज्ञानं येन समस्तवस्तुविषयं चारित्रमेनोलता दात्रं येन पवित्रिताः सुकृतिनो येनाऽस्तु तद्दर्शनम् । मच्चेतःशरणप्रकाशनमणिर्यन्नूनचिन्तामणि भव्यानां यदचिन्तितामितफलैर्नित्यप्रमोदोदयम् ॥ ७४ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy