SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः । । कुर्यात् । कोसौ ? गणी | कम् ? प्रतिक्रमं व्रतारोपणप्रतिक्रमणं तस्मिन्नेव दिने सूरिः कुर्यात् । सुलग्नाद्यभावे कतिपयदिवसे व्यवधानेपीत्यर्थः । किं कृत्वा ? निक्षिप्य स्थापयित्वा । कान् ? मूलगुणान् । क्व ? दीक्षिते संजातदीक्षे पुंसि । किंविशिष्टान् ? सशीलादीन् चतुरशीतिलक्षगुणाष्टादशशीलसहस्त्रसहितान् । केन ? संक्षेपेण । कति ? अष्टाविंशतिम् । कथम् ? इति एवंस्वरूपान् । तमेव व्रतादीत्यादिना प्रकाशयति । भवन्ति । के ? मूलगुणाः । किं रूपाः ? व्रतसमितीन्द्रियरोधाः । कति ? पञ्च । कथम् ? पृथक् प्रत्येकम् । पञ्चपञ्चेत्यर्थः । व्रतानि च समितयश्चेन्द्रियरोधाश्च स्पर्शनादीन्द्रियपञ्चकनिवारणानि व्रतसमितीन्द्रिय: रोधाः पञ्चदश । तथा क्षितिशयो भूमिशयनं मूलगुणः स्यात् । तथा रदाऽघर्षो रदानां दन्तानामघर्षणमदन्तधावनं मूलगुणः स्यात् । तथ स्थितिसक्कदशने उद्भभोजत्वमेकभक्तं च मूलगुणौ स्तः । स्थितिरुद्वीभावः । सकृदेकवार म् । स्थितिश्च सकृच्च स्थितिसकृत् । ताभ्यामशने भोजने स्थिति सकृदशने । तथा लुञ्वावश्यकषङ्के लुञ्चश्वावश्यकषङ्कं च ते । लोच एको मूलगुणः स्यात् । आवश्यकानि षट् च मूलगुणाः स्युः । तथा विचेलता आचेलक्यं मूलगुणः स्यात् । तथाऽस्नानं जलावगाहनो द्वर्तनाद्यभावोऽष्टाविंशो मूलगुणः स्यात् । अन्यदातनलोचकालक्रियानुष्ठान निर्णयार्थमाह लोचो द्वित्रिचतुर्मासैर्वरो मध्योऽधमः क्रमात् । लघुप्राग्भक्तिभिः कार्यः सोपवासप्रतिक्रमः ॥ ८६ ॥ ६७७ कार्योऽवश्यकर्तव्यः । कोसौ ? लोचः । काभिः ? लघुप्राग्भक्तिभिर्लघुसिद्धयोगिभक्तिभ्यां प्रतिष्ठाप्यः लघुसिद्धभक्त्या निष्ठाप्य इत्यर्थः । प्राग्भक्तयः सिद्धयोगिसिद्धस्तुतयः । लघवश्च ताः प्राग्भक्तयश्च तास्ताभिः । किंविशिष्टः ? वरो मध्योऽधमश्च । कस्मात् ? क्रमात् । कैः ? द्वित्रिच - तुर्मासैः । द्वाभ्यां मासाभ्यामुत्कृष्टो लोचः स्यात् त्रिभिर्मध्यमश्चतुर्भिश्चाधमः स्यादित्यर्थः । पुनः किंविशिष्टः ? सोपवासप्रतिक्रम उपवासप्रतिक्रमणयुक्तः । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy