________________
६६८
अनगारधर्मामृते—
1
तथा स्तोतु स्तावकलोकः । कान् ? तानृषीन् । क्व ? सिद्धशान्त्यन्तः । किंविशिष्टान् ? श्रुतादिकान् । श्रुतमादिः प्रथमं येषामृषीणां ते श्रुतादिकास्तान् । न केवलं, तानपि अन्तगुरून् । अन्ते समीपे गुरुराचार्यो येषां तान् । छ ? वपुषि न केवलं, निषेधिकायां च । कस्य ? ऋषेः । किंविशिष्टस्य ? गणिनः । पुनः किंविशिष्टस्य ? समयविदः सिद्धान्तज्ञस्याचार्यस्य सैद्धान्तस्य चर्षेः शरीरे निषेधिकायां च सिद्धश्रुतयोग्याचार्यशान्तिभक्तीः कुर्यादित्यर्थः । तथा स्तोतु स्तोतृजनः । कान् ? ऋषीन् । क ? सिद्धशान्त्यन्तः । किंविशिष्टान् ? यमादीन् यमश्चारित्रमादिः प्रथमं येषामृषीणां ते यमादयस्तान् । न केवलं अपिशब्दादतगुरूंश्च । क्क ? वपुषि । न केवलं, निषेधिकायां च । कस्य ? ऋषेः । किंविशिष्टस्य ? गणिनः । पुनः किंविशिष्टस्य ? तनुक्लिशः कायक्लेशिनश्वर्षेः । काये निषेधिकायां च सिद्धचारित्रयोग्याचार्य शान्तिभक्ती रचयेदित्यर्थः । तथा स्तोतु वन्दकजनः । कान् ? ऋषीन् । क ? सिद्धशान्त्यन्तः । किंविशिष्टान् ? द्वयमुखान् द्वयं श्रुतचारित्र द्वितयं मुखे आरम्भे येषामृषीणां ते द्वयमुखास्तान् । अपिशब्दादन्तगुरूंश्च । क्व ? वपुषि । न केवलं, निषेधिकायां च । कस्य ? ऋषेः । किंविशिष्टस्य ? गणिनः । पुनः किंविशिष्टस्य ? द्वियुजः द्वौ सिद्धान्तकायक्लेशौ युनक्तीति द्वियुक् तस्य । सैद्धान्तस्य कायक्लेशिनश्चेत्यर्थः । सैद्धान्तस्य कायक्लेशिनः आचार्यस्य चर्षेः काये निषेधिकायां च सिद्धश्रुतचारित्रयोग्याचार्यशान्तिभक्ती रचयेदित्यर्थः । उक्तं च
I
काग्रे निषेधिकायां च मुनेः सिद्धर्षिशान्तिभिः । उत्तरव्रतिनः सिद्धवृत्तर्षिशान्तिभिः क्रियाः ॥ सैद्धान्तस्य मुनेः सिद्ध श्रुतर्षिशान्तिभक्तिभिः । उत्तरव्रतिनः सिद्धश्रुतवृत्तर्षिशान्तिभिः ॥ सूरेर्निषेधिकाका सिद्धर्षिसूरिशान्तिभिः । शरीरक्लेशिनः सिद्धवृत्तर्षिगणिशान्तिभिः ॥ सैद्धान्ताचार्यस्य सिद्ध श्रुतर्षिसूरिशान्तयः । अस्य योगे सिद्धश्रुतवृत्तर्षिगणिशान्तयः ॥ स्थिरचलजिनबिम्बप्रतिष्ठायाः
दिशति -
Jain Education International
विधिं तच्चतुर्थस्त्रपनक्रियाविशेषं चोप
For Private & Personal Use Only
www.jainelibrary.org