SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीगौतमीयकाव्यं '. इति इत्थं जगद्गुरोः श्रीवीरप्रभोः वक्त्रसरोजगभन्मुखकमलमध्याद्विनिर्गतानि वचोऽक्षराणि वचसः सम्बन्धीनि वर्णानि निशम्य ३ श्रुत्वा तत्त्वं तद्गतपरमार्थं सम्यक् परिपीय पीत्वाऽवधार्येत्यर्थः, मतिमान् बुद्धिमान् प्रभासः शिवे मुक्तौ यद्वा मुक्तिकारणे भगवद्गदिते मार्गे उत्सुकोऽभूदित्यर्थः ॥ ३६॥ ततः समं शिष्यशतत्रयेण प्रव्रज्य सावधविधेविरक्तः । पूर्वप्रबुद्धर्षिसमाजराजौ दर्भासनं मेध्यमलञ्चकार ॥ ३७॥ ततस्तदनन्तरं शिष्याणां शतत्रयेण समं सह प्रव्रज्य भगवत्पार्थे ९प्रव्रज्यां गृहीत्वा सावधविधेः सपापव्यापारतः विरक्तो विरतः प्रभासः पूर्व प्रबुद्धाः प्रबोधं प्राप्ता ये ऋषयो गौतमाद्या मुनयस्तेषां समाजः परिषत् तद्रपा या राजिः पतिः तस्यां मेध्यं पवित्रं दर्भासनं कुशमय१२ मासनं अलञ्चकार शोभमानं कृतवान् , तत्रोपविष्टवानित्यर्थः । तदानीं दर्भासनं भवतु वा मा भवतु, परं साधूनां प्रायस्तत्संभवात्तद्रहणमित्य वसेयम् , समाजेति । “समाजः परिषत् सद" इति हैमः । १५ 'पवित्रं पावनं पूतं पुण्यं मेध्य मिति च ॥ ३७ ॥ अथ समग्रग्रन्थोक्तार्थोपसंहारमाहइत्थं मनःसंशयमार्जनेन श्रीवीरदत्तत्रिपदीसुबीजात् । १८ क्लृप्त्वाङ्गपूर्वाणि गणाधिनाथा एकादशापि प्रथिता बभूवुः ३८ इत्थमुक्तप्रकारेण मनस्सु गौतमादीनां हृदयेषु ये संशया सन्देहास्तेषां मार्जनेन शोधनेन श्रीवीरेण दत्ता या त्रयाणां पदानां समाहारस्त्रिपदी 'उपन्नेइ वा विगमेइ वा धुवेइ वेत्येतत्स्वरूपा पदत्रयी सा २२ एव सुशोभनं बीजं, तस्मात् अङ्गानि च आचारादीनि अङ्गपूर्वाणि तानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy