________________
२७६
श्रीगौतमीयकाव्यं
आदयो येषां ते माऽमरनारकादय एवंविधा ये पर्यायास्तेषां नाशेऽपि जीवस्यात्मनो नाशो न भवति । अयं भावः-नरतिर्यगादिरूपेण ३यो भावः स जीवस्य पर्याय एव, न च पर्यायमात्रनाशे पर्यायिणो
जीवद्रव्यस्यापि सर्वथा नाशो मतः, कथंचित्तु भवत्यपि, न हि मुद्रादिपर्यायमात्रनाशे हेम्नः सर्वथा नाशो दृष्टः, ततो नर-नारकादिसंसार६पर्यायनिवृत्तौ मुक्तिपर्यायान्तरोत्पत्तिः जीवस्य स्याद्यथा मुद्रापर्यायनिवृत्तौ कर्णपूरपर्यायान्तरोत्पत्तिः सुवर्णस्य, इति न किञ्चिद्विरुध्यते,
अत्र पुनर्विशेषार्थिना विशेषावश्यकवृत्तिर्विलोक्या ॥ २२ ॥ ९ अथ प्रदीपदृष्टान्तभावितां प्रथमयुक्तिं निराकर्तुमाहदृष्टान्तभूतेऽपि तव प्रदीपे न सर्वथैवाभिहितो विनाशः । यतः प्रदीपावयवस्तुनाशेऽप्यनश्वरत्वं स्फुटमस्त्यणूनाम् ॥२३॥ १२ हे प्रभास ! तवापि त्वन्मतेऽपीत्यर्थः, दृष्टान्तभूते प्रदीपेऽभिहित
उक्तो यो विनाशः स सर्वथैव सर्वैरेव प्रकारैर्न विद्यते, कथञ्चिदेवास्तीति भावः । कथमेतदेवमित्याह-यतो यस्मात् प्रदीपायस्य १५प्रदीपनामकस्य वस्तुनः पदार्थस्य नाशे सत्यपि अणूनां तत्परमाणु
पुद्गलानां स्फुटं प्रकटं अनश्वरत्वमविनाशित्वमस्ति । प्रदीपानलवरूपविनाशेऽपि तत्पुद्गलानां रूपान्तरतया परिणमनान्न सर्वथा विनाश १०इति भावः ॥२३॥
यदि सर्वथा प्रदीपवहेर्न नाशस्तर्हि विध्यातानन्तरं किमित्यसौ साक्षान्न दृश्यते ? अत्रोत्तरमाह
आर्टेन्धनोपाधिवशो यथाऽग्निः - कृष्णं परीणाममियर्ति धूमे । स्नेहक्षयाद्वयणवस्तथैव .
विशीर्य कार्येन तमो मिलन्ति ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org