SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः। [द्वितीयः अन्येन च्छत्रबालव्यजनविरहितेनाभ्युपेतव्यमेवं संवादे भोजराजो व्ययविमुखमतिः कर्णदेवेन जिग्ये ॥ १॥ ९९) भोजे राज्ञि दिवं गतेऽतिबलिना कर्णेन धारापुरी भङ्गं सूत्रयतोपरुध्य नृपतिर्भीमः सहायीकृतः । तद्धृत्येन च डामरेण जगृहे बन्दीकृतात्कर्णतो हैमी मण्डपिका गणाधिपयुतः श्रीनीलकण्ठेश्वरः ॥ २ ॥ १००)*कविषु वादिषु भोगिषु योगिषु द्रविणदेषु सतामुपकारिषु । धनिषु धन्विषु धर्मपरेषु च क्षितितले न हि भोजसमो नृपः ॥ ३ ॥ (a आदर्श तथा मु. पुस्तके निम्नलिखितः प्रबन्धोऽधिको वर्तते ) अथ श्रीकर्णस्याग्रे इदं काव्यमुक्तं कर्पूरकविना मुखे हारावाप्तिरित्यादि (श्लो, ९३) । अपशब्दकथनाद्राज्ञा तस्य कवेः किंचिन्न प्रदत्तं । कुक्षेः कोटर एव कैटभरिपुर्धत्ते त्रिलोकी मिमामन्तभूरिभरं बिभर्ति तमपि प्रीतो भुजङ्गाधिपः । श्रीकण्ठस्य स कण्ठसूत्रमभवद्देव त्वया तं हृदा बिभ्राणेन परेषु विक्रमकथा श्रीकर्ण निर्नाशिता ॥ १ ॥ श्रीनाचिराजकविनोक्तमेतदाज्ञा प्रदत्तम् । दत्ता कोटी सुवर्णस्य मत्ताश्च दश दन्तिनः। दत्तं श्रीकर्णदेवेन नाचिराजकवेर्मदात् ॥ २ ॥ भार्यया हक्कितेन कर्पूरकविना समागच्छतो नाचिराजकवेरग्रे मार्गे इदं काव्य भणितं । यत् कन्ये कासि, न वेत्सि मामपि कवे कर्पूर, किं भारती सत्यं, किं विधुरासि, वत्समुषिता, केनाम्ब दुर्वेधसा । किं नीतं तव, मुञ्जभोजनयनद्वन्द्वं, कथं वर्तसे दीर्घायुभेजतेऽन्धयष्टिपदवीं श्रीनाचिराजः कविः ॥ श्रीनाचिराजकविना संतुष्टेन यद्राज्ञा प्रदत्तं तत्सर्वमपि कर्पूरकवये प्रदत्तं । * पद्यमिदं भोजप्रबन्धेऽप्यस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy