________________
प्रबन्धचिन्तामणिः |
[ द्वितीयः भाजनं भूयाः । नो वाहं त्वां विजित्य सप्तत्रिंशताधिकस्य राज्ञां शतस्य नाथेो भवामीति तद्वचसा पेरिम्लानमुखाम्भोजः श्रीभोजः सर्वेष्वपि प्रकारेषु जितकाशिनं श्रीकाशिपुराधीशं विमृशन् स्वं विजितं मन्यमानः स्तानुपरोधपूर्वमभ्ययैवमङ्गीकारयामास । मयावन्त्यां श्रीकर्णेन वाराणस्पामेकस्मिन्नहनि लभे गर्तापूरपूर्वमारभ्याहंपूर्विकया कार्यमाणयोः पञ्चा - शद्धस्तप्रमाणयोः प्रासादयोः यस्मिन्प्रासादे प्रथमं कलशध्वजारोपो भवति तस्मिन्नुत्सवे परेण नरेन्द्रेण त्यक्तच्छत्रचामरेण करेणुमधिरुह्य समागन्तव्यमित्थं भोजस्य यथारुच्यङ्गीकारे कर्णगोचरंगते श्रीकर्णस्तेनापि प्रकारेण भोजमधश्चिकीर्षुरेकस्मिन्नेव लग्ने पृथग् पृथग् प्रारब्धयोरुभयोः प्रासादयोः सर्वाभिसारेण निजप्रासादं निर्मापययंस्तत्र कर्णः सूत्रभृतं पप्रच्छ । एकस्मिन्नहन्युदयास्तयोरन्तरे कियान्कर्मोछायो भवतीति निवेद्यतां । अथ तेन चतुर्दश्यनध्याये तत्र सप्तहस्तप्रमाणा एकादश प्रासादा दिनोदये प्रारभ्य दिनान्ते कलशारोपपर्यन्ताः कारयित्वा नृपाय दर्शितास्तया समग्रसामग्र्या नृपः प्रमुदितचित्तो' भोजप्रासादकलापबन्धे संजायमाने निजप्रासादेऽनलसः कलशमधिरोप्य निर्णीते ध्वजाधिरोपलभे तया प्रतिज्ञया श्रीभोजं दूतमुखेन निमन्त्रयामास । ततः स्वप्रतिज्ञाभङ्गभीरुर्मालवमण्डलप्रभुस्तथा प्रयातुमप्रभु श्रीभोजस्तूष्णीमासीत्
७८
४१ अथ प्रासादध्वजाधिरोपानन्तरं श्रीकर्णस्तावद्भिरेव नपैः समं प्रस्थितः श्रीभोजमभिषेर्णयितुं । तदाच श्रीभोजराज्यार्धं प्रतिश्रुत्य श्रीमाल वकमण्डलपाणिघाताय श्री कर्णः श्री भीममाजूहवत् । अथ ताभ्यां नरेन्द्राम्यां मन्त्रेणाक्रान्तो व्याल इव भोजभूपालो विगलितदर्पविषो बभूव ।
१ इति प्रभावाविर्भावादीषत्परि HD २ श्रीकर्णस्तेषु सामर्षोsपि H L ३ निर्मापयतोस्तत्र P ४ कर्मस्थायो C H ५ चित्तो भोजप्रासादे कपालबन्धे ज्ञायमाने Ho६ अप्रभूष्णुत्र I H & ७ अवतीर्णपुराणकर्ण इव H ८ श्रीभो जमभ्यषेणयत् तस्मिन्नवसरे HL ९ निःसो मतदीयसीमनगरे I H
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org