SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ द्वितीयः स्वमुक्तेन तुरगेण प्रविशन् व्याकुलीकृतेषु लोकेषु, इतस्ततः पलायमानेषु जनेषु कामपि तक्रविक्रयिणीं जनसंमर्देन मौलिकंपाद्भूतलपतितभग्नभाण्डामपि गोरसे सरित्प्रवाह इव प्रसरति विकसितमुखां तां प्राह । तवावि - षादे किं कारणमिति नृपेण पृष्टे सा प्राह९२) हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद्गणिकास्मि जाता । पुत्रं भुजङ्गमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ तस्मात्प्रदेशान्महीनदी प्रादुरासेत्यवादिपुः || ॥ इति गोपगृहिणीप्रबन्धः ॥ ३९ अन्यदा प्रीतो भोज उपशिलामेकां लक्षीकृत्य धनुर्वेदमनिर्वेदमभ्यसंस्तत्कालदर्शनार्थमागतेन सिताम्बरवेषधारिणा श्रीचन्दनाचार्येण प्रत्युत्पन्नप्रतिभाभिरामतयौचित्यमभिदधे- ९३) विद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन राजन्पाषाणवेधव्यसनरसिकतां मुञ्च देव प्रसीद | क्रीडेयं चेत्प्रवृद्धा कुलशिखरिकुलं केलिलक्षं करोषि ध्वस्ताधारा धरित्री नृपतिलक तदा याति पातालमूलम् ॥ इति तत्कवितातिशयचमत्कृतोऽपि किञ्चिद्विचिन्त्य नृपतिरित्युवाच । भवता सर्वशास्त्रपारङ्गतेनापि ध्वस्ता धारेति यत्पदमपाठि ततः कमप्युत्पातं सूचयति ॥ * ४० इतश्च डाहालदेशीयराज्ञो राज्ञी देमतीनाम्नी महायोगिनी कदाचिदासन्नप्रसवा सदैव दैवज्ञानिति पप्रच्छ । कस्मिन्सुलग्ने जातः सुतः सार्व१ पलायमानेषु लोकेषु c जातभयेषु लोकेषु H L २ तां श्रीभोजः प्राह तव विषादेऽपि किं हर्षकारणं नृपेणेत्यभिहिता सा प्राह L १३ महीयसी नदी प्रादुरासीत LH इति लोका वदन्ति D x प्रबन्धोऽयं B L आदर्शयोन पलभ्यते ७६ Jain Education International -- For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy