________________
प्रथमसंस्कर्तुः पुस्तकाप्तिप्रज्ञप्तिपूर्वकस्वकल्पितसंकेतस्वरूपनिरूपणम्
सन्ने १८८५-८६ वर्षे डा. पी. पीटर्सनसाहेबसंगृहीतं नं० ६१७ मुद्रणेच्छाजनकमदृष्टपूर्व प्राचीनमकृततृतीयलक्षणं प्रबन्धचिन्तामणिपुस्तकं A स्थाने स्थापितम् ॥ १ ॥
तस्यैव द्वितीयावतारमिव पं० रत्नविजयगणिपुस्तकं B स्थाने बोध्यम् ॥२॥ स्वस्यैव नवीनमपि शतधाछिन्नं C स्थाने निवेशितम् ॥ ३ ॥
आनन्दसुरगच्छाधिराजश्रीपूज्यगुणरत्नसूरिप्रीतिप्रेषितमव्यवस्थितस्वादकल्प्यमपि D स्थाने कल्पितम् ॥ ४ ॥
एवमसमयसामग्र्यामपि श्राद्धश्रद्धया प्रवर्तिते मुद्रणकार्ये कालातिक्रमे प्रयासशतैः संक्रान्तं विमलोपाश्रयस्थाद्विमलमपि मलधारिणोऽपूर्ण पुस्तकं पुनरपि प्रान्ते पाठान्तरेषु A स्थाने निसृष्टम् । तादृग्विधमपि केवलभगवदिच्छयाप्तं मुम्बापुरीयसुसाइटीस्थं कृपालयफारबससाहेबसंगृहीतं तन्मित्रमिव तत्रैव B स्थाने नियमितम् ॥
यत्र न कोपि संकेतस्तत्र स्वकृतमेवावगन्तव्यं टिप्पणम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org