________________
प्रस्तावना.
श्रीप्रबंधचिन्तामणिनाम्नो ग्रन्थस्यास्य जैनधार्मिकदृष्टया यद्विषयप्रयोजनादि तत्प्रथमसंपादकेन स्वकृतप्रस्तावनायां विस्तरतो वर्णितम् । ततः कियानंशोऽने उद्भियते । तत्रोक्तप्रकारेण सत्यपि ग्रन्थस्यास्य परमपुरुषार्थसाधकत्वे ग्रन्थक; स्वयमेवोक्तं बुधलोकचित्तरंजनमपि वर्तत एव प्रयोजनान्तरं, परंत्वाधुनिकानां मनसि ग्रन्योऽयं गूर्जरदेशस्य मध्यकालीनेतिहासस्य साधनभूतत्वेनैव महत्त्वमादधाति ।
ग्रन्थस्यास्यैतिहासिकमूल्यं सविस्तरं निरूपयितुं गूर्जरानुवादस्योपोद्घाते प्रयत्नः कृतः, परमत्रतावदवश्यं कथ्यते यदद्यावध्युपलब्धैतिहासिकसाघनरूपेषु प्रबन्धेष्वयं प्रबन्धचिन्तामणिः सर्वतोऽधिकविश्वसनीयः । ग्रन्थेऽस्मिन्दृग्गोचरीभूतो मूलराजादिनृपतीनां राज्यकालनिर्देश: प्राय: पुरातत्त्वविद्भिर्विश्वासार्हो गण्यते । तत्तन्नपैराचरितयुद्धादिकार्यवृत्तान्तोऽपीतिहासस्य नातिदूरे वर्तते । तथापि नायमितिहास: किन्तु प्रबन्ध एवं । ग्रन्थका "संप्रदायप्राप्त" श्रुतमेवात्र संकलितम् । विविधाः प्रबन्धा लोककथारूपाः । लोककथारूपादंशादैतिहासिकोंऽशो विविच्य गूर्जरानुवादस्य टिप्पणीषु परिशिष्टेषु च प्रदर्शितः । ऐतिहासिकतत्त्वस्येयत्ता च तत्रैवोपोद्घाते वर्णिता।
ऐतिहासिकान्वेषणकार्ये उपयुक्ततामुदिश्य समानार्थानां प्रबन्धानां तथा च सुभाषितविषये मूलग्रन्थानामथवा सुभाषितावल्यादिसुभाषितसंग्रहानामुल्लेखाष्टिप्पणीषु प्रदत्ताः।
ऐतिहासिकटिप्पण्यस्तु गूर्जरानुवादे द्रष्टव्याः।
ग्रन्थोऽयं वि. सं. १३६१ वर्षे वर्धमानपुरे समाप्तिं गमित इति ग्रन्थसमाप्तौ ग्रन्थक; स्वयमेवोक्तम् ।
शुद्धिपत्रकस्यावश्यकतानिराकरणाय यथाशक्ति कृतेऽपि यत्ने न तत्र सफलताऽभूदिति शुद्धिपत्रकं प्रदत्तं तथापीन्द्रियदौर्बल्याद् भ्रमप्रमादादिवशाद्वाऽवशिष्टं स्खलितं यद्भवेत्तत्सुधीभिः संशोधनीयमिति प्रार्थयतेझंडुफार्मसी सयानी रोड, मुम्बई.
शास्त्री केवलरामसूनुः दुर्गाशंकरशर्मा वि. सं. १९८८ अक्षय तृतीयाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org