SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२ प्रबन्धचिन्तामणिः [द्वितीयः इति सत्काव्यार्थमवगम्य तदौदार्यविनिर्जितगर्वसर्वस्वस्तां वहिकामर्चयित्वा यथास्थानमस्थापयत् । ६ प्रतीहारेण विज्ञप्तः स्वामिन्देवदर्शनोत्सुकं सरस्वतीकुटुम्बं द्वारमध्यास्ते । क्षिप्रं प्रवेशयेति राजादेशादनु प्रथमं प्रविष्टा तत्प्रेष्या प्राह१४) बापो विद्वान् बापपुत्रोऽपि विद्वान् आई विउषी आईधुआपि विउषी । काणी चेटी सापि विउषी वराकी राजन्मन्ये विजेंपुझं कुटुम्बम् ॥ इति तस्य प्रहसनप्रायेण वचसा नृपतिरीषद्विहस्य तज्ज्येष्ठपुरुषाय समस्यापदमाह-- असारात्सारमुद्धरेत् ॥ १५) *दानं वित्तादृतं वाचः कीर्तिधर्मी तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥ अथ नृपस्तत्पुत्राय-हिमालयो नाम नगाधिराजः । चकार मेनाविरहातुराङ्गीति नृपतिवाक्यानन्तरम्१६) तव प्रतापज्वलनाजगाल हिमालयो नाम नगाधिराजः। चकार मेना विरहातुराङ्गी प्रवालशय्याशरणं शरीरम् ॥ * प्रविष्टः तत्प्रेष्यः प्राह A प्रविष्टं तत् । प्रेष्यः प्राह P १ बप्पो b २ विदुषी acd ३ विद्री a विध्री C विदुसी d ४ विद्म b विद्व d x पद्यमिदं साहित्यदर्पणे, सुभाषितार्णवे हैमकाव्यानुशासने (पृ-२८७) च दृश्यते ५ पदमिदं कुमारसंभवस्थं (१-१) ६ इदमपि कुमारसंभवस्थं (३.८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy