________________
प्रकाशः ] भोजभीमप्रबन्धौ। तथाहि कङ्कणोत्कीर्णमार्याचतुष्टयमेतत्२) *इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति संपदियम् ।
विपदि नियतोदितायों पुनरुपकर्तुं कुतोवसरः ॥१॥ ३) निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वणशशाङ्क ।
सुचिरं हन्त न सहते हतविधिरिह सुस्थितं किमपि ॥ २ ॥ ४) अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् ।
इदमपि सुलभमम्भो भवति पुरा जलधराभ्युदये ॥३॥ ५) कतिपयदिवसस्थायी पूरो दूरोन्नतोऽपि चण्डरयः । __ तटिनि तटद्रुमपातिनि पातकमेकं चिरस्थायि ॥ ४ ॥ किंच६) यदि नास्तमिते सूर्ये न दत्तं धनमर्थिनाम् ।
तद्धनं नैव जानामि प्रातः कस्य भविष्यति ॥५॥ इति स्वकृतं कण्ठाभरणीकृतं श्लोकमिष्टमन्त्रवजपन्मन्त्रिन्, प्रेतप्रायेण भवता कथं विप्रलभ्ये ।
३ अथान्यस्मिन्नवसरे राजा राजपाटिकायां संचरन् सरित्तीरमु. पागतः । तन्नीरमुल्लङ्यागच्छन्तं दारिद्योपद्भुतं काष्ठभारवाहकं कमपि विप्रं पाह
अयं श्लोकः राजतरंगिण्यां (५-३६) अवन्तिवर्म (इ. स. ८५५) कालीनो वर्तते
१ उदयायां cd . २ अयं श्लोकः कस्यापीति शार्ङ्गधरपद्धत्यां ( ५५१) ३ अयं श्लोकः वल्लभदेवस्येति शार्ङ्गधरपद्धत्या (१९२८) मस्ति ४ अयं श्लोकः कस्यापीति शाङ्गधरपद्धत्यां प्रदत्तः (११२४) ५ दरोन्नतिश्च भविता ते d ६ किंच श्लोकद्वयं कुण्डलोत्कीर्णम् ॥ तद्यथा
प्रासादर्घमपि ग्रासमर्थिभ्यः किं न दीयते।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ यदि नास्तमिते- इत्यादि Bd: ७ यदनस्त A B. ८ इमानि सुभाषितानीष्ट d ९ विप्रलभ्यः d विप्रलम्भ्यः P
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org