________________
प्रबन्धचिन्तामणिः ।
[प्रथमः राजो जगृहे । कारागृहे निहितः काष्ठपञ्जरनियन्त्रितो मृणालवत्या तद्भगिन्या परिचार्यमाणस्तया सह जातकलत्रसंबन्धः । पाश्चात्यैर्निजप्रधानैः सुरङ्गादानपूर्व तत्र ज्ञापितसंकेतः । कदाचिद्दर्पणे स्वं. प्रतिबिम्ब पश्यन्नज्ञातवृत्त्या पृष्ठतःसमागताया मृणालवत्या वदनप्रतिबिम्बं जराजर्जरं मुकुरे निरीक्ष्य यूनः श्रीमुञ्जस्य वदनसामीप्याचद्विशेषविच्छायतया तां विषण्णामालोक्यैवमवादीत्३४)*मुञ्ज भणई मुणालवइ जुव्वण गयुं न झूरि ।
जइ सक्कर सयखण्ड थिय तो इस मीठी चूरि ।। इति तां संभाष्य स्वस्थानं प्रति यियासुस्तद्विरहासहो भयात्तं वृत्तान्तं ज्ञापितुमशक्तो भूयो भूयः प्रोच्यमानोऽपि तां चिन्तामनुच्चरनलवणातिलवगरसवती भोजितोऽपि तदास्वादानवबोधात्तया निर्बन्धबन्धुरया गिरा सप्रणयं पृष्ठः प्राह । अहमनया सुरङ्गया स्वस्थाने गन्तास्मीति चेद्भ१ शुभशीलकृते भोजप्रबन्धे मृणालवतीचरितं यथा :
इतस्तैलिपदेवस्य पित्रा देवलभूभुजा। . पत्नीस्थाने कृता दासी सुन्दरीत्यभिधा पुरा ॥ पुत्री मृणालवत्याह्वां स्ते स्म सुन्दरी पराम् ।
वर्धमाना क्रमात्प्राप्ता यौवनं भगिनी पुनः । इत्ता तैलिपदेवेन श्रीपुरे चन्द्रभूपतेः॥ चन्द्रो यदागमच्छूलरोगेण यममन्दिरम् । . सापि तैलिपदेवस्य धातु हमुपागमत् ॥ .. स्वसा तैलिपदेवस्य रण्डा मृणालवत्यथ । भक्तपानादि मुञ्जस्य चक्रे भ्रातृनिदेशतः ॥ तिलगनगरोपान्ते गत्वा गव्यूतपञ्चके । ग्रामे चन्द्राभिषे तस्थुः सुरङ्गादातुमेव ते ॥
मु. पु. पृ ३३८-३३९ २ पभणह मुख cd ३ जुवणु गियउं म झूरि. cd
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org