SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः। [प्रथमः वहणाय पितरावनुज्ञाप्य निर्बन्धात्तमेवोपयेमे । तयोर्नन्दनो लाखाकः । स कच्छदेशाधिपतिः प्रसादितयशोराजवरप्रसादात्सर्वतोऽप्यजेयः । एकादशकृत्वस्त्रासितश्रीमूलराजसैन्यः । कस्मिन्नप्यवसरे कापलकोटदुर्गे स्थित एव राज्ञा लाखाकः स्वयं निरुद्धः । तदनु स लक्षः काप्यवस्कन्ददानाय प्रहितं नियूंढसाहसं माहेचाभिधं भृत्यमागच्छन्तमियेष । तत्स्वरूपमवधार्य श्रीमूलराजेन तदागमनमार्गेषु निरुद्धेषु स समाप्तकार्यस्तत्रागच्छन् शस्त्रं त्यजेति राजपुरुषैरुक्तः स्वामिकार्यसमर्थनाय तथैव कृत्वा समरसज्जं लाखाकमुपेत्य प्राणसीत् । अथ संग्रामावसरे२६) उग्या ताविउँ जहिं न किउ लक्खउ भणइ तिघट्ट ।। गणिया लब्भइ दीहडा के दहक अहवा अठ्ठ ॥ १ ॥ ___ इत्यादिबोधवाक्यानि विविधानि व्याहरन्माहेचैभृत्येनोद्भटवृत्तिदर्शनेन प्रोत्साहितसाहसः श्रीमूलराजेन समं द्वन्द्वयुद्धं कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्यदिने श्रीसोमेश्वरमनुस्मृत्य ततोऽवतीर्णरुद्रकलया स लक्षो निजघ्ने । अथ तस्याजौ भूपतितस्य वातचलिते श्मश्रुणि पदा स्पृशन् राजा लक्षजनन्या लूारोगेण भवद्वंशो विपत्स्यत इति प्रशप्तः ।। २७) खप्रतापानले येन लक्षहोमं वितन्वता । सूत्रितस्तत्कलत्राणां बाप्पावग्रहनिग्रहः ॥ १॥ २८) कच्छपलक्ष हत्वा सहसाधिकलम्बजालमायातम् । संगरसागरमध्ये धीवरता दर्शिता येन ॥ २॥ ॥ इति लाखाकोत्पत्तिविपत्तिप्रबन्धः ।। २७(२९) मेदिन्यां लब्धजन्मा जितबलिनि बलौ बद्धमूला दधीचौ रामे रूढप्रवाला दिनकरतनये जातशाखोपशाखा । १ ताव्यउजिहि L २ बहूनि वाक्यानि B ३ माहिचभृत्योद्भट K L साहिवाभत्योद्भट । ४ लुति P ५ श्लोको २७,२८ न दृश्येते H पुस्तके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy