________________
पशा
प्रबन्धचिन्तामणिः ।
[प्रथमः ३ ॥ अथ शीलव्रते भूयराजप्रबन्धः ॥ तद्यथा१४ षिट्त्रिंशग्रामलक्षप्रमिते कन्यकुब्जे' नगरे कल्याणकटके पानीयाधिकृतप्रियाभिलाषव्यतिकराद्राजा भूयदेवो मालवके श्रीकद्रमहाकालमाराध्य मालवकं तस्मै देवाय दत्त्वा स्वयं तापसोऽभूदिति संक्षेपः॥
४ [अथ वनराजादिचापोत्कटवंशः] १५ तस्य कन्यकुब्जस्यैकदेशो गुर्जरधरित्री तस्यां गुर्जरभुवि वढीयाराभिधानदेशे पञ्चाशरग्रामे चापोत्कटवंश्यं झोलिकासंस्थं बालकं वणनाम्नि वृक्षे निधाय तन्मातेन्धनमवचिनोति । प्रस्तावात्तत्रायातैर्जनाचार्यः
सयलजणाणन्दयरो सुक्कस्स वि एस परिमलो जस्स। तस्स नवसरसभावम्मि हुज किं चन्दणदुमस्स ॥ ९॥ कयलितरू विञ्झगिरी नेहाहारो य चन्दणद्रुमो य।
एयाओ नवरि सालाहणेण नवकोडिगहियाओ ॥ १० ॥
+ अयं प्रबन्धो निम्नलिखितेन रूपेण B H K आदर्शेषु मुद्रितपुस्तके च परिशिष्टे ३३३ पृष्टे दृश्यते-षट्त्रिंशद्ग्रामलक्षप्रमिते कन्यकुब्जदेशे कल्या. णकटकनाम्नेि राजधानीनगरे भूराज इति राजा राज्यं कुर्वन् कस्मिंश्चित्प्रभातसमये राजा राजपाटिकायां संचरनेकस्मिन्सौधतले वातायनस्थितां कामपि मृगाक्षीं मृगयमाणो निजचित्तापहारापराधिनी तां जिहीर्षनिजं पानीयाद्यधिकृतपुरुषं समादिदेश स च तां नृपसौधे समानीय कस्मिंश्चित्संकेतप्रदेशे स्थापयित्वा नृपं विज्ञपयामास । नृपेण च तत्रागतेन बाहुदण्डे धृता सती भूपमवादीत् । स्वामिन् सर्वदेव. तावतारस्य भवतो हन्त कोऽयं नीचनार्यामभिलाषः। ततस्तद्वाक्यामृतेनेषच्छान्तकांमानलो नृपः कासीति तां प्रोचे । तयाहं दासीत्यभिहिते किं तथ्यमेतदिति नृपादेशात्प्रभोर्दासः पानीयाधिकृतस्तस्य पत्न्यहं दासानुदासीति तद्वार्त्तयान्तश्चमत्कृतो नृपतिः सर्वथा विलीनकामार्तिः स्वां सुतां मन्यमानो विससर्ज । तस्या वपुषि निजकरौ लग्नाविति विचिन्त्य तनिग्रहवाञ्छया निशीथे निजैरेव यामिकर्गवाक्षप्रविष्टनरकरभ्रान्त्या निजावेव भुजौ निग्राहयामास । अथ प्रत्यूषे तान्यामिकान् सचिवैनिगृह्यमाणानिवार्य मालवमण्डले महाकालदेवप्रासादे गत्वा स्वयं देवमाराधयंस्तस्थौ । देवादेशाद्भजद्वये लग्ने सति तं कन्यकुब्जाधमालवदेशं सान्तःपुरं तस्मै देवाय दत्त्वा तद्रक्षाधिकृतान् परमारराजपुत्रानियोज्य स्वयमेव तापसीं दीक्षामङ्गीचके । इति शीलवते भूयराजप्रबन्धः । . १ कन्यकुब्जदेशे कल्याणक्टक नामनि राजधानीनगरे H २ बाणनाम्नि A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org