________________
प्रकाशः] प्रकीर्णकप्रबन्धाः ।
१९१ प्रेक्षध्वं परमर्दिपार्थिवयशोराशेविकाशोदया- .
हीजोच्छ्वासविदीर्णदाडिमदशां ब्रह्माण्डमारोहति ॥ इत्यादिभिः स्तुतिभिःस्तूयमानश्चिरं राज्यसुखमनुबभूव । : १७ स च सपादलक्षक्षितिपतिना श्रीपृथ्वीराजेन सह संजातविग्रहः समराजिरमधिरूढः स्वसैन्ये पराजिते कान्दिशीकः कामपि दिशं गृहीत्वा पलायनपरः स्वराजधानीमाजगाम । अथ तस्य पार्थिवस्यापमानितपूर्वसेबको निर्विषयीकृतः पृथ्वीराजराजसभामुपेतः प्रणामान्ते किं दैवतं पूज्यते परमर्दिपुरे विशेषात्सुकृतिभिरिति स्वामिनादिष्टस्तत्कालोचितं काव्यमिदमपाठीत् । १९) मन्दश्चन्द्रकिरीटपूजनरसस्तृष्णा न कृष्णार्चने
स्तब्धः शम्भुनितम्बिनीप्रणतिषु व्यग्रो विधातृग्रहः । नाथो नः परमद्यनेन वदनन्यस्तेन संरक्षितः
पृथ्वीराजनराधिपादिति तृणं तत्पत्तने पूज्यते ॥ इति स्तुतिपरितोषितेनानुजग्राह । स तत्र त्रिःसप्तकृत्वस्त्रासितम्लेछाधिपोऽपि द्वाविंशतितमवेलायां स एव म्लेच्छाधिपतिः पृथ्वीराजराजधानीमुपेत्य निजदुर्धरस्कन्धावारेण समवात्सीत् । त्रासितमक्षिकेव भूयो भूयो रिपुरुपैतीति निजनृपतेररतिं मनोगतामवगम्य प्रभोनिःसीमप्रसादपात्रं द्वितीयमिवममात्रं तुङ्गनामा क्षानं तेजो वहन्सुभटकोटीरः स्वप्रतिबिम्बरूपेण पुत्रेण समं म्लेच्छाधिपतेरनीकं प्रविश्य निशीथसमये तस्य रिपोर्गुरूदरात्परितः खदिराङ्गारधगधगायमानां परिखां निरीक्ष्याङ्गजं जगाद । अस्यां मम प्रविष्टस्य पृष्ठे पदं ददानो म्लेच्छपतिं निगृहाणेति पितुरादेशान्ते कार्यमेतन्ममासाध्यतमं, किं च जीवितकाङ्क्षया वर्तुर्विपत्तिदर्शनं, तदहमस्यां विशामि भवन्त एव तमन्तं नयन्तु । इत्युक्त्वा तेन तथा कृते, स्वामि
१ अपमानितसर्व P अपमानितपूर्वः कोऽपि तत्पूर्व सेवको H २ स्तब्धा a ३ प्रसादपात्राद्वितीयमिवामानं P ४ वपुः a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org