________________
१६४ प्रबन्धचिन्तामणिः।
[चतुर्थः कनिमनः स एव स्तम्भः प्रादुरासीत् । सचिवसमादेशात्तस्मिस्तत्र संचार्यमाणे प्रासादो विदीर्ण इति निवेदितुमागताय परुषभाषकाय हैमीं जिव्हां स मन्त्री ददौ । दक्षैः किमेतदिति पृष्टेऽतः परं यथाकथंचिद्धमस्थानानि दृढानि कारयिष्यन्ते यथा युगान्तेऽपि तेषां नान्तो भवति अतः पारितोषिकदानं । आमूलात्तृतीयवेलायामयं प्रासादः समुद्धृतो विजयते ।
५८ श्रीपालिताणके च पौषधशालां विशालां कारयामास । श्रीमदुजयन्ते च श्रीसंघेन सह प्राप्तो मन्त्री तत्र च तदुपत्यकायां तेजलपूरे कारितं नव्यं वर्ष, तथा तन्मध्ये श्रीमदाशराजविहारं तथा कुमारदेवीसरश्च निरुपमं विलोक्य, धवलगृहे पादोऽवधार्यतामिति नियुक्तैरुच्यमाने, श्रीमद्गुरूणां योग्यं पौषधवेश्मास्ति नास्तीति मन्त्रिणादिष्टे तन्निष्पाद्यमानमाकर्ण्य विनयातिक्रमभीरुर्गुरुभिःसह बहिर्दापितावासे तस्थौ । प्रातरुज . यन्तमारुह्य श्रीशैवेयक्रमकमलयुगलमभ्यर्च्य स्वयंकारितश्रीश→जयावतारतीर्थे प्रभूतप्रभावनां विधाय कल्याणत्रयचैत्यवर्यसपर्यादिभिस्तदुचितीमाचर्य मन्त्री यावत्तृतीये दिनेऽवरोहति तावदुभाभ्यां दिनाभ्यां निष्पन्ने पौषधौकसि मन्त्रिणा समं गुरवस्तत्र समानीतास्तत्पशशंसुः पारितोषिकदानेनानुजगृहुँः ।
५९ श्रीमत्पत्तने प्रभासक्षेत्रे चन्द्रप्रभं प्रभावनया प्रणिपत्य यथौचित्यादभ्यर्च्य च निजेऽष्टापदप्रासादेऽष्टापदकलशमारोप्य तत्रत्यदेयलोकाय दानं ददानः श्रीहेमाचार्यः श्रीकुमारपालनृपतये जगद्विदितं श्रीसोमेश्वरः प्रत्यक्षीकृत इति पञ्चदशाधिकवर्षशतदेशीयधार्मिकपूजाकारकमुखादाकर्ण्य तच्चरित्रचित्रितमना व्यावृत्तमानो मार्गे लिङ्गोपजीविनामसदाचारेणान्नदाने निषिद्धे, तत्पराभवं विज्ञाय वायडीयश्रीजिनदत्तसूरिभि
१ उपत्यकान्ते C D २ जलपूरे P जलपुरे a L ३ नुजगृहे H
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org