________________
प्रकाशः ]
३७ कदाचित्पृथिव्यामानृण्याय नृपतिना स्वर्णसिद्धये श्रीहेमचन्द्राणामुपदेशात्तद्गुरवः श्रीसंघनृपतिविज्ञप्तिकाभ्यामाकारितास्तीत्रत्रतपरायणा महत्संघकार्यं विमृश्य विधिविहारक्रमेण पथि केनाप्यलक्ष्यमाणा निजामेव पौषधशालामागताः । राजा तु प्रत्युद्गमादिसामग्रीं कुर्वन् प्रभुज्ञापितस्तत्राययौ । अथ गुरौ नृपतिप्रमुखैः समस्तश्रावकयुतैः प्रभुभिर्द्वादशावर्त वन्दनावन्दिते वन्दनान्से तौ श्रुततदुपदेशानन्तरं गुरुभिः पृष्टे संघकार्ये सभां विसृज्य जवनिकान्तरितौ श्रीहेमचन्द्र - नृपती तत्पादयोर्निपत्य सुवर्णसिद्धेर्याचनां चक्राते । मम बाल्ये वर्तमानस्य ताम्रखण्डः काष्ठभारवाहिकातो याचितवल्लीरसेनाभ्यक्तो युष्मदादेशाद्वहि संयोगात्सुवर्णाबभूव । तस्या वल्लेर्नामसंकेतादिरादिश्यतामिति, श्रीमाचार्ये उक्तवति कोपाटोपात् श्रीहेमचन्द्रं दूरतः प्रक्षिप्य न योग्योऽसीति । अग्रे मुद्गरसप्रायदत्तविद्यया त्वमजीर्णभाक् कथमिमां विद्यां मोदकप्रायां तव मन्दार्ददामीति तं निषिध्य नृपं प्रति एतद्वाग्यं भवतो नास्ति येन जगदानृण्यकारिणी हेमनिष्पत्तिविद्या तब सिध्यति । अपि च मारिनिवारणजिनमण्डितपृथ्वीकरणादिभिः पुण्यैः सिद्धे लोकद्वये किमधिकमभिलषसीत्यादिश्य तथैव विहारक्रमं कृतवन्तः ॥ * [ एकदा पृष्टं राज्ञा पूर्वभवस्वरूपं तत्सर्वं कथितं प्रभुभिरिति । ]
३८ अथ कस्मिन्नप्यवसरे सपादलक्षं प्रति सज्जीकृते सैन्ये श्रीवाग्भटस्यानुजन्मा चाहनामा मन्त्री दानशौण्डतया दूषितोऽपि भृशमनुशिक्ष्य भूपतिना सेनापतिश्चक्रे । तेन प्रयाणद्वितयानन्तरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाधिपालक्षद्रव्ये याचिते, नृपादेशात्तस्मिन्न ददावे अथ तं कशाप्रहारेणाहत्य स सेनापतिस्तं कटकान्निरवासयत् । स्वयं तु यदृच्छया दानैः प्रीणितार्थि लोकश्चतुर्दशशतसंख्यासु करभीष्वारोपितै
कुमारपालप्रबन्धः ।
Jain Education International
* कोष्टकान्तर्गतं वचनमिदं & H L M आदर्शेषु नास्ति परन्तु मुद्रितपुस्तके वर्तते प्रसंगस्तु चतुर्विंशतिप्रबन्धे वर्णितः
२०
१५३
For Private & Personal Use Only
www.jainelibrary.org