SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ चतुर्थः शालितन्दुलान्प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमानेषु मुशलप्रहारेषु प्राक्प्रासादकम्पो, द्वितीये प्रहारे देवीमूर्तिरेव स्वस्थानादुपेत्य वज्रपाणिप्रहारेभ्यो रक्ष रक्षेत्युच्चरन्ती प्रभोश्चरणयोर्निपपात । इत्थमनवद्य विद्याबलाचन्मूलानां मिथ्यादृग्व्यन्तरीणां दोषं निगृह्य श्रीसुव्रतप्रासादमाजग्मुः । १७) संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कुरा विश्वालम्बनयष्टयः परमतव्यामोहकेतूगमाः । किं वास्माकमनोमतङ्गजदृढालानैकलीलाजुषस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुत्रतस्वामिनः || इति स्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाश्रभटमुल्लाघस्नानेन पटूकृत्यं यथागतमागुः । श्रीमदुदयनचैत्ये शकुनिकाविहारे घटीगृहे राज्ञः कङ्कणनृपतेः कलशत्रयं स्थानत्रये न्यास्थत् । * इति श्रीराजपितामहाप्रभटप्रबन्धः ॥ २० अथान्यस्मिन्नवसरे कुमारपालनामा नृपः पाण्डित्यलिप्सया कपर्दिमन्त्रिणोऽनुमतेन भोजनानन्तरं क्षणं केनापि विदुषा वाच्यमाने कामन्दकीयनीतिशास्त्रे -- १४४ १७) पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ वाक्यमिदमाकर्ण्य नृपतेर्मेघ औपम्या इति कुमारपालेनाभिहिते सर्वेष्वपि सामाजिकेषु न्युब्छनानि कुर्वाणेषु तदा कपर्दिमन्त्रिणमवाङ्मुखं वीक्ष्य, एकान्ते नृपपृष्ठ एवमवादीत् । औपम्याशब्दे स्वामिना स्वयमुच्चरिते सर्वव्याकरणेष्वेतत्प्रयोगापेतेषु छन्दोनुवर्तिभिन्युञ्छनानि क्रिय १ उल्लाप्य नीरोगं कृत्वा ९ २ एवं शकुनिकाविहारोद्धारे कोटिद्वयं व्ययितम् a * प्रबन्धोये जिनप्रभसूरिकृततीर्थकल्पे तथा च प्रभावकचरिते श्रीहेमचन्द्रसूरि प्रबन्धे ऽपि वर्तते ३ का. नी. सर्ग १ ली. १३ हितोपदेशे शार्ङ्गधरपद्धत्यां ( १२८३ ) चापि दृश्यते ४ अपप्रयोगे Ac D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy