________________
प्रबन्धचिन्तामणिः।
[चनुः माचार्यो गीतकलाया अवधिं पप्रच्छ। स शुष्कदारुणः पल्लवप्ररोहमवधि विज्ञप्तवान् । तर्हि तत्कौतुकं दर्शयेत्यादिष्टः अर्बुदागिरेविरहकनामानं वृक्षमाक्षेपादानाय्य तच्छुष्कशाखायाः काष्टं राजाङ्गणे कुमारमत्तिकया क्लप्तालवाले निवेश्य निजया नवगीतकलया सद्यः प्रोल्लसत्पल्लवं तं निवेदयन् सनृपतीन् भट्टारकश्रीहेमचन्द्रसूरीन् परितोषयामास । इति अच्छईकारसोलाकप्रबन्धः ।।
८ अथ कदाचित्सर्वावसरे स्थितचौलुक्यचक्रवर्ती कुङ्कुणदेशीयमल्लिकार्जुनाभिधानस्य राज्ञो मागधेन राजपितामह इति बिरुदमभिधीयमानमाकर्ण्य तदसहिष्णुतया सभां निमालयन्नृपचित्तविदा मन्त्रिणाऽम्ब. डेन योजितकरसम्पुटं दर्शयता चमत्कृतः, सभाविसर्जनानन्तरमञ्जलिबन्धस्य कारणं पृच्छन्नेवमूचे । यदस्यां सभायां स कोऽपि सुभटो विद्यते यंप्रस्थाप्य मिथ्याभिमानिनं चतुरङ्गनृपवन्नृपाभासं मल्लिकार्जुनं विनाशयाम इत्याशयविदा मया त्वदादेशक्षमेण चाञ्जलिबन्धश्चक्रे इति विज्ञप्तिसमनन्तरमेव तं नृपं प्रति प्रयाणाय दलनायकीकृत्य पञ्चाङ्गप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज । स चानवच्छिन्नैः प्रयाणैः कुङ्कुणदेशमधिगम्य दुरिवारिपूरां कलविणिनाम्नी सरितमुत्तरन् परस्मिन्कूले आवासेषु दीयमानेषु तं संग्रामसजं विमृश्य स मल्लिकार्जुननृपतिः प्रहरंस्तसैन्यं त्रासयामास । अथ तेन पराजितः स सेनापतिः कृष्णवदनः कृष्णवसनः कृष्णच्छत्रालङ्कृतमौलिः कृष्णगुरूदरे निवसन्, चौलुक्यभूभुजा विलोक्य कस्यासौ सेनानिवेश इत्यादिष्टे कुकुणात्प्रत्यावृत्तस्य पराजिताम्बडसेनापतेः सेनानिवेशोऽयमिति विज्ञप्ते तस्य त्रपया चमत्कृतचित्तः प्रसन्नयाँ दृशा संभावयंस्तदपरैर्बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं - १ शाखाखण्ड dC २ छइ C३ दलमेकीकृत्य P ४ प्रसादललितया C
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org