________________
प्रकाशः]
सिद्धराजप्रबन्धः । ४ इतश्च शुभकेशिनामा कर्णाटराट् तुरगापहृतोऽटव्यां नीतः कुत्रापि पत्रलवृक्षच्छायां सेवमानः प्रत्यासन्नदावपावके कृतज्ञतया विश्रामोपकारकारिणं तमेव तरुमजिहासुस्तेनैव सह तस्मिन्दहने प्राणानाहुतीचकार । ततस्तत्सूनुर्जयकेशिनामा तद्राज्ये सचिवैराभिषिक्तः क्रमेण तत्सुता मयणल्लदेवी समजनि सा च शिवभक्तैः सोमेश्वरनामनि गृहीतमात्र एवेति पूर्वभवमस्मार्षीत् । यदहं प्राग्भवे ब्राह्मणी द्वादशमासोपवासान्कृत्वा प्रत्येक द्वादशवस्तूनि तदुद्यापने दत्वा श्रीसोमेश्वरनमस्याकृते प्रस्थिता बाहुलोडनगरमागतो तत्करं दातुमक्षमाग्रतो गन्तुमलभमाना तन्निर्वेदादहमागामिनि जन्मनि अस्य करस्य मोचयित्री भूयासमिति कृतनिदाना कृतानशना च विपद्यात्र कुले जातेति पूर्वभवस्मृतिः । अथ बाहुलोडकरमोचनाय सा गूर्जरेश्वरं प्रवरं वरं कामयमाना तं वृत्तान्तं पित्रे निवेदयामास । अथ जयकेशिराज्ञा तं व्यतिकरं ज्ञापितः श्रीकर्णः स्वप्रधानैः स्वसुताया मयणल्लदेव्या अङ्गीकारं याच्यते स्म । अथ श्रीकणे तस्याः कुरूपताश्रवणादुदासीने सति तस्मिन्नेव राज्ञि निर्बन्धपरां तां मयणल्लदेवीं पिता स्वयंवरां प्राहिणोत् । अथ श्रीकर्णनृपो गुप्तवृत्त्या स्वयमेव तां कुत्सितरूपां निरूप्यं सर्वथा निरादर एव जातः । ततोऽष्टभिः सहचरीभिः सह नृपतिहत्याकृते मयणलदेवीं प्राणान्परिजिहीर्ष मत्वा श्रीकर्णजनन्या उदयमतिराच्या तासां विपदं दृष्टुमक्षमया ताभिः सह प्राणसंकल्पश्चक्रे ॥ यतः
३) स्वापदि तथा महान्तो न यान्ति खेदं यथा परापत्सु । ___ अचला निजोपहतिषु प्रकम्पते भू: परव्यसने ॥ * अयं प्रबन्धः जिनमण्डनगणीयकुमारपालप्रबन्धे वर्तते १ प्रान्तरप्रान्तभूमौ H L २ मुपागता H ३ मातरं निवेदितवती BHL ४ श्रीकर्णः प्रधानपुरुषैर्मयणलदेव्याः कुरूपतां निशम्य मन्दादरे b H ५ वि. लोक्य HD ६ दिक्वन्याभिरिव मूर्तिमतीभिः H BL
४ अयं लोकः जिनमण्डनगणीयकुमारपालप्रबन्धेऽपि वर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org