________________
३२९
ईयए || एवं पठति गोपा नृत्यन्ति । तैरुक्तमनेन जितं त्वं किमपि न वेत्सि । ततो वृद्धवादिना पुरे मत्वा वादं विधाय जितः शिष्यो बभूव । ततः सिद्धसेनादिवाकरेण गुरुचरणसंवाहनां विधाय मानन गुरव उक्ताः । यदि यूयमादेशं ददत तदाहमागमं संस्कृतेन करोमि, गुरुभिरुक्तं । तव महत्पापमजनित्वं गुरुगच्छयोग्यो न गच्छेः । तेनोक्तं, प्रायश्चित्तं ददत | गुरुभिरुक्तं । यत्र जिनधर्मो न तत्र जिनप्रभावनां विधाय पुनः समामन्तव्यमित्यवधूतवषेण चलितः । द्वादशवर्षाणि यावदन्यत्र परिभ्रम्य तदनन्तरं मालवके गूढमहाकालप्रासादे शिवाभिमुखं चरणौ कृत्वा चरणत्रापौ द्वारकाष्ठे नियोज्य सुप्तः । तत्र वारितोपि त थैव । अत्रान्तरे राज्ञारक्षिकपुरुषान् प्रेषयित्वोपद्रुतः । तावतान्तःपुरे रवप्रदीपनं लग्नं, राज्ञा समागत्य पृष्टः । कथं शिवस्य न नमस्कारं विदधासि । तेनोक्तं मम नमोसौ न सहते । विधेहि । तेन सकललोकसमक्षम्
प्रशान्तं दर्शनं यस्य सर्वभूतामयप्रदम् । माङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते ॥१॥ इति द्वात्रिंशद्दात्रिंशतिका कृता, तदा लिङ्गमध्यादवन्तिसुकुमालद्वात्रिंशत्पत्नीकारितप्रासादे श्रीपार्श्वमाथबिम्बं प्रकटीभूतं नमस्कृतं च । असौ सहते नमस्कारं तदाप्रभृति गूढमहाकालोजाने । राजा विक्रमार्क: परमजैनोभूत्। सिद्धसेनोपि स्वगुरुपार्श्वे समेत्य सूरिमन्त्रं
Jain Education International
--
For Private & Personal Use Only
www.jainelibrary.org