________________
२४०
प्रबन्धचिन्तामणिः सर्ग. 8
क्षिप्य न योग्योसीति । अग्रे मुहरसप्रायदत्तविद्यया त्वमजीर्णभाक् कथमिमां विद्यां मोदकप्रायां तव मन्दाग्नर्ददामीति तं निषिध्य नृपं प्रति एतद्भाग्यं भवतो नास्ति येन जगदानृण्यकारिणी हेमनिष्यत्तिविद्या तव सिद्ध्यति । अपि च मारिनिवारणजिनमण्डितष्टथ्वीकरणादिभिः पुण्यैः सिद्वे लोकद्वये किमधिकमभिलषसीत्पादिश्य तथैव विहारक्रमं कृतवन्तः । एकदा ष्टष्टः राज्ञा पूर्वभव स्वरूपं । तत्सर्वं कथितं प्रभुभिरिति । अथ कस्मिन्नप्यवसरे सपादलक्षं प्रति सज्जीकृते सैन्ये श्रीवाग्भस्यानुजन्मा बाहडनामा मन्त्री दानशौण्डतया दूषितोपि भृशमनुशिक्ष्य भूपतिना सेनापतिश्चक्रे । तेन प्रयाणद्वितयानन्तरमस्तोकमार्थैलोकं मिलितमालोक्य कोशाधिपालक्षद्रव्ये याचिते नृपादेशात्तस्मिन्नदाने अथ तं कशाप्रहारेणाहत्य सेनापतिस्तं कटकान्निरवासयत् । स्वयं तु यदृच्छया दानैः प्राणितार्थि लोकश्चतुर्दशशतसंख्यासु कर भीष्वारोपितैर्द्विगुणैः सुभटैः समं चरमितैः प्रयाणैर्बम्बेरा नगरे प्रकारं वेष्टयामास । अथ तस्यां । निशि सप्तशतीकन्यानां विवाहः प्रारब्धोस्तीति नगरलेोकान्मत्वा तद्विवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org