SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८४ प्रबन्धचिन्तामणिः सर्ग. ३ प्राहिणोत् । अथ तेन नियोगिना भाण्डादिक्रयविक्रयं संक्षिप्य । ममागमनावधि नैतेषां प्रधानानां दर्शनं देयमिति वेगवता पुरुषेण विज्ञपयामास । तदनु झगिति कतिपयैर्दिनस्तत्र समुपेतः । तत्स्वरूपं विज्ञप्तो नृपतिस्तेषां प्रधानानां तदुचितामावजैनां चकार॥ इति कोल्लापुरराजप्रबन्धः ॥ __ श्रीसिद्धराजेन मालवमण्डलाद्यशोवर्मा नृपतिर्निबध्यानीतः। अवसरे क्रियमाणेन सीलनाभिधानकौतुकिना “बेडायां समुद्रो मग्न इति” तत्पृष्ठगायनेनापशब्दं ब्रूषे इति तर्जितो बेडासमानायां गूर्जरधरित्र्यां मालवकसमुद्रो मग्न इति विरोधालङ्कारमर्थापत्त्या परिहरन्प्रभोहेममयीं जिव्हां प्राप ॥ इति कौतुकीसीलणप्रबन्धः ॥ ___ कदाचित्सिद्धराजस्य वाग्मी कश्चित्सान्धिविग्रहिको जयचन्द्रनाम्ना काशीपुरीश्वरेण श्रीमदणहिल्लपुरस्य प्रासादप्रपानिपानादिस्वरूपाणि पृच्छतेति दूषणमुक्तः। यत्सहस्रलिङ्गसरोवरवारि शिवनिर्माल्यं तदऽस्पृशतया तत्सवका अतो. लोकद्वयाविरोधिनस्तत्रत्यलोकः कथमुदितोदितप्रभावःस्यादिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy