________________
१८२ प्रबन्धचिन्तामणिः सर्गः ३ दिशतु देवः । ताभ्यामित्यभिहिते नृपतिः किंचि. दन्तर्विचिन्त्य स तावेवं समादिशत् । यद्वयमेव प्रफु. लायल्लकेलहरीप्रेर्यमाणाः स्वसमये स्वयमेव विभीषणमिलनाय समेष्याम इत्युदीर्य निजकण्ठ गृ. कारिणमेकावलीहारं प्रतिप्राभृतं प्रसादीकृत। प्रभुणाहमयमपि प्रेष्यप्रेषणावसरे न विस्मरणीय इति विशेषविज्ञप्तिं विधायान्तरिक्षमार्गेण तद्राक्षसद्वन्द्वं तिरोधत्ते । तदैव ते म्लेच्छप्रधानपुरुषा भयनान्ताः स्वपौरुषमुत्सृज्य नृपपुरत आहूता भक्तिभारभासुराणि वचांसि ब्रूवाणास्तद्राजाय समुचितमुपायनमुपनीय श्रीसिद्धराजेन व्यसृज्यंत ॥ इति म्लेछागमनिषेधप्रबन्धः ॥
अथानन्तरं कोल्लापुरेनगरराजस्य सभायां बन्दिनः श्रीसिद्धराजस्य कीर्ति वितन्वन्तः, तदा तथ्यं सिद्धराजं वयं मन्यामहे यदा प्रत्यक्षमप्यस्माकं कमपि चमत्कारं सिद्धराजो दर्शयतीत्येतद्रुवाणेन तेन राज्ञा ते पराकृतास्तत्स्वरूपं नृपतेर्विज्ञपयामासुः । अथ स्वामिनि सभायां निभालयति तनत्त्ववेदिना के. १ सत्यमेवमादिदेश २ [उत्कण्ठातिशयाश्चर्य) ३ A B आप्टच्छतामवसरे प्रभुणाहमन्यस्मिन्नाप. ४ ) व्यजृम्भन्त. ५ A कौलाकपुर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org