________________
सिद्धराजप्रबन्धः १७९ काले संभूय सर्वेऽपि मिलिता नृपदर्शनोत्कण्ठिताः सौधमध्यास्य प्रभोः प्रणामानन्तरं तदतुल्यपल्यङ्के निविष्टाः, आसनदाननियोगिभिः प्रदत्तेपि पृथगासने तत्सौकुमार्य करस्यशेन विचिन्त्य वयमिह सुखसुखेन निषण्णास्तिष्टाम इति नृपे स्मितमुखाम्भोजे तस्थुः ॥ इति उझोवास्तव्यग्रामीणानां प्रबन्धः। ___अथ कदाचिज्झालोज्ञातीयमानामा क्षत्रियः श्रीसिद्धराजसेवार्थ सभा गच्छन् प्रत्यहं पाराचीद्वयं भूमौ निहत्योपविशतिाउद्धरन्द्वयमुत्तिष्ठति तस्य च भोजने घृतपरिपूर्णः कुतुपै एक एव व्यये यातितस्य तु घृताभ्यक्तदाढिकानिर्माजने घृतषोडशांशो ऽवशिष्यते । कदाचिद्वपुरपाटवे पथ्यावसरे पञ्चमानकप्रमितयवागूपथ्यप्रान्ते आयुर्वेदविदाऽमृतो. दकम हारे किमिति न पीतमुत्पुपालब्धः। यतः॥ पिबेटसहस्रं तु यावन्नाभ्युदितो रविः । उदिते तु सहस्रांशौ बिन्दुरेको घटायते ॥१ . १ कु.ण्डा. २ ) गाला. ३ पाषाणभेदकः शस्त्रविशेषः पराई भाषायां ४ C उत्तिष्टस्तद्वयमुद्धरात A 13 ) ५ कुम्भः ६ A B व्याध्यवसरे ७८ अस्तामतः ८ अस्तं याते ९ C D बिन्दुर्घटशतायते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org