________________
सिद्धराजप्रबन्धः १३५ जसौधे समानांतः कतके' शरीरामये नाडीदर्श. नाप्तथ्यासजतां निवेदयन्निदमचे। तदेव नास्तीति। ततस्त्वं मया रोगप्रतीकाराय नाकारितः किं तु पथ्यदानेन बुभुक्षाप्रतीकारार्थमेव । ततो द्वात्रिंशत्सहस्राण्युपनयेत्युत्का तेन बन्दीकृतस्तत्तथेति निर्मायेत्याभिग्रहमग्रहीत् । यदतः परं प्रतीकारनिमितं नृपतेः सौधमपहाय नान्यत्र गन्तव्यमिति । ततः परमातुराणां प्रश्रवणालोकनान्निदानचिकित्सितं कुर्वाणः केनापि मायाविना कृतकामयचिकित्सितकौशलं बुभुत्सुना वृषभप्रश्रवणे दर्शिते सम्यक् तदवगम्य शिरोधूननपूर्वकं वृषभः स बहुखादनेन गोण्डित इत्यस्मै सत्वरमेव तैलनाली दीयतां नोद्विपत्स्यते इति तच्चित्ते चमत्कारमारोपयामास । अन्यदा राज्ञा निजग्रीवाबाधाप्रतीकारं दृष्टः । पलद्वयप्रमाणमृगमदपङ्कलेपेन शिरोतिरुपशाम्यतीति व्याहृते तथालते ग्रीवा सजीभूता। ततो नृपसुखासनवाहिना पामरेण नरेण शिरोबाधाप्रतीकार दृष्टः । वृद्धकरीरमूलरसेन तन्मृत्तिकासहितेन लेपं
१ समानीय कृत्रिमे २ B D इत्यादिष्टस्तत्तथेति ३ मोडितः [ रुग्णः ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org