SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] श्री अर्बुदाचलो परिस्थिताः प्रशस्तयः । अस्ति स्वस्तिनिकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामुर्डीतले पालयन् । आत्मीयं ब(*)हुमन्यते न हि गुणग्रामं च कामंदकि चाणक्योऽपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यम् इतश्च महं० श्रीतेजःपालस्य पत्न्याः श्रीअनुपमदेव्याः पितृवंशवर्णनम् ॥ प्राग्वाटान्वय मंडनैकमुकुटः श्रीसांद्रचंद्रावती वास्तव्यः स्त(*)वनीयकीर्तिलहरिप्रक्षालितक्ष्मातलः । श्रीगागाभिधया सुधीरजनि यद्वृत्तानुरागादभूत्, को नाप्तप्रमदो न दोलितशिरा नोद्भूतरोमा पुमान् ! अनुसृतसज्जनसरणिर्धरणिगनामा बभूव तत्तनयः । स्वप्रभुहृदये (*) गुणिना, हारेणेव स्थितं येन त्रिभुवनदेवी तस्य, त्रिभुवनविख्यातशीलसंपन्ना । दयिताऽभूदनयोः पुनरंगं द्वेधा मनस्त्वेकम् अनुपमदेवी देवी, साक्षाद्दाक्षायणीव शीलेन । तद्दुहिता सहिता श्रीतेजःपालेन (*) पत्याऽभूत् इयमनुपमदेवी दिव्यवृत्तप्रसूनत्रततिरजनि तेजःपालमंत्री पत्नी । नय-विनय- विवेकौचित्य-दाक्षिण्य-दानप्रमुखगुणगणें दुद्योतिताशेषगोत्रा लावण्यसिंहस्तनयस्तयोरयं, रयं जयन्निं () [द्रि ] यदुष्टवाजिनाम् । लब्ध्वापि मीनध्वजमंगलं वयः, प्रयाति धर्मैकविधायिनाऽध्वना श्री तेजपालतनयस्य गुणानमुष्य, श्रीलूणसिंह कृतिनः कति न स्तुवंति ? । श्रीबंधनोद्धुरतरैरपि यैः समंतादुद्दामता त्रिजगति क्रि ( * ) यते स्म कीर्तेः गुण-धननिधानकलशः, प्रकटोऽयमवेष्टितश्च खलसपैः । उपचयमयते सततं, सुजनैरुपजीव्यमानोऽपि मल्लदेव सचिवस्य नंदनः, पूर्णसिंह इति लीलुकासुतः । तस्य नंदतिसुतोऽयमह्नणा ( * ) देविभूः सुकृतवेश्म पेथड : अभूदनुपमा पत्नी, तेजःपालस्य मंत्रिणः । लावण्य सिंहनामाऽयमायुष्मानेतयोः सुतः तेजःपालेन पुण्यार्थं, तयोः पुत्र-कलत्रयोः । हर्म्यं श्रीनेमिनाथस्य, तेने तेनेदमर्बुदे तेजःपाल इति क्षितीं सचिवः शंखोज्ज्वलाभिः शिला श्रेणीभिः स्फुरदिंदुकुंदरुचिरं नेमिप्रभोर्मंदिरम् । उच्चैर्मंडपमग्रतो जिन[वरा ]वासद्विपंचाशतं, तत्पार्श्वेषु बलानकं च पुरतो निष्पादयामासिवान् Jain Education International For Private & Personal Use Only ६३ ॥ ४९ ॥ ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ॥ ५५ ॥ ॥ ५६ ॥ ॥ ५७ ॥ ॥ ५८ ॥ ॥ ५९ ॥ ॥ ६० ॥ ॥ ६१ ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy