SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] गिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः । एतस्मिन् वसुधासुधाजलधरे श्रीवस्तुपाले जग____जीवातौ सिचयोच्चयैर्नवनवैर्नक्तं दिवं वर्षति (*)। आस्तामन्यजनो घनोज्झितशशिज्योत्स्नाच्छवल्गद्गुणो द्भूतैरद्य दिगम्बराद्यपि यशोवासोभिराच्छादितम् लक्ष्मीर्मन्थाचलेन्द्रभ्रमणपरिचयादेव पारिप्लवेयं, भ्रूभङ्गस्यैव भङ्गाचकितमृगदृशां प्रेमनस्थेतरस्य । आयुनिःश्वासवायुप्रणयपरतयैवेवमस्थैर्यदुस्थं, स्थास्नुर्धर्मोऽयमेकः परमिति हृदये (*) वस्तुपालेन मेने तेजःपालस्य विष्णोश्च, कः स्वरूपं निरूपयेत् ? । स्थितं जगत्रयीं पातुं, यदीयोदरकन्धरे ॥ ९ ॥ ललितादेवी नाम्ना, सधर्मिणी वस्तुपालस्य । अस्यामनिरस्तनयस्तनयोऽयं (*) जयतसिंहाख्यः दृष्ट्वा वपुश्च वी........च, परस्परविरोधिनी । विवादा......जैत्रसिंहस्तारुण्यवाद्रि (?) कः ॥ ११ ॥ (*) कृतिरियं मलधारिश्रीनरचन्द्रसूरीणाम् ॥ तम्भतीर्थेऽत्र कायस्थवंशे वाजडनन्दनः । प्रशस्तिमेतामलिखज्जैत्रसिंहध्रुवः सुधीः हिडस्य तनूजेन, सूत्रधारेण धीमता । एषा कुमारसिंहेन, समुत्कीर्णा प्रयत्नतः ॥२॥ 'श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु, प्रशस्तिः स्वस्तिशालिनी ॥३॥ (गिरनार इन्स्क्रिप्शन्सू नं० २।२७-२९) (४३-६) ॐ नमः श्रीसर्वज्ञाय ॥ संमेतादिशिरःकिरीटमणयः स्मेरस्मराहंकृति ध्वंसोल्लासितकीर्तयः शिवपुरप्राकारतारश्रियः । आनत्यश्रितसंविदादिविलसद्रत्नौघरत्नाकराः, कल्याणावलिहेतवः प्रतिकलं ते सन्तु वस्तीर्थपाः स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुरवास्तव्यप्राग्वाटलालङ्करण (*) श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ठ० श्रीसोमतनुज ठ० श्रीआशाराजदनस्य ठ० श्रीकुमारदेवीकुक्षिसम्भूतस्य ठ० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्रीजापालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे महं० श्रीललितादेवीकुक्षिसरोवरराजहंसायमाने १ पद्यमिदं नरचन्द्रीयवस्तुपाल प्रशस्तौ षोडशपद्यतयाऽपि वर्तते ॥ २ पद्यमिदं प्राचीनजैनलेखसंग्रह २ गे ६४ संख्यअर्बुदाचलसत्कशिलालेखे षोडशं सोमेश्वर देवकृतितया वर्तते ॥ ३ पद्यमिदं प्राचीनजैनलेखसंग्रह २ ३४-४१-४२ संख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्तते ॥ ४ पद्यमिदं प्राचीनजैनलेखसंग्रह २ भागे १-४३ संख्यगिरिनारसत्कप्रशस्त्योरपि प्रान्तमागे वर्तते ॥ ५पद्यमिदं प्राचीन जैनलेखसंग्रह २ भागे ३८-३९-४३ संख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy