SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] गिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः । ४९ विजयसेनसरिप्रतिष्ठितऋषभदेवालंकृतोऽयमभिनवः समण्डपः श्रीअष्टापदमहातीर्थावतारनिरुपमप्रधानप्रासादः कारितः ॥ प्रासादैर्गगनाङ्गणप्रणयिभिः पातालमूलंकषैः, कासारैश्च सितैः सिताम्बरगृहैनर्जीलैश्च लीलावनैः । येनेयं नयनिर्जितेन्द्रसचिवेनालंकृताऽलं क्षितिः, क्षेमैकायतनां चिरायुरुदयी श्रीवस्तुपालोऽस्तु सः संदिष्टं तव वस्तुपाल! बलिना विश्वत्रयीयात्रिका न्मत्वा ना(*)रदतश्चरित्रमिति ते हृष्टोऽमि नन्द्याश्चिरम् । नार्थिभ्यः क्रुधमर्थितः प्रथयसि स्वल्पं न दत्से न च, ___ स्वश्लाघां बहु मन्यसे किमपरं ? न श्रीमदान्मुह्यसि ॥ २ ॥ अरिबलदलनश्रीवीरनामाऽयमुस, सुरपतिरवतीर्णस्तर्कयामस्तदस्य । निवसति सुरशाखी वस्तुपालाभिधानः, सुरगुरुरपि तेजःपालसंज्ञः समीपे ॥३॥ उदारः शूरो वा(*)रुचिरवचनो वाऽस्ति नहि वा, भवत्तुल्यः कोऽपि क्वचिदिति चुलुक्येन्द्रसचिव ! । समुद्भूतभ्रान्तिर्नियतमवगन्तुं तव यश स्ततिर्गेहे गेहे पुरि पुरि च याता दिशि दिशि सा कुत्रापि युगत्रयी बत! गता सृष्टा च सृष्टिः सतां, सीदत्साधुरसंचरत्सुचरितः खेलत्खलोऽभूत् कलिः । तद्विश्वार्तिनिवर्तनैकमनसा प्रत्तोऽधुना शं(*)भुना, प्रस्तावस्तव वस्तुपाल! भवते यद् रोचते तत् कुरु के निधाय वसुधातले धनं, वस्तुपाल! न यमालयं गताः? । त्वं तु नन्दसि निवेशयन्निदं, दिक्षु धावति जने क्षुधावति पौत्रेण धारय वराहपते! धरित्री, सूर्य! प्रकाशय सदा जलदाभिषिञ्च । विश्राणितेन परिपालय वस्तुपाल!, भारं भवत्सु यदिमं निदधे विधा(*)ता ॥७॥ आत्मा त्वं जगतः सदागतिरिय कीर्तिर्मुखं पुष्करं, मैत्री मन्त्रिवरः स्थिरा घनरसः श्लोकस्तमोघः शमः । नोक्तः केन करस्तवामृतकरः कायश्च भास्वानिति, स्पष्टं धूर्जेटिमूर्तयः कृतपदाः श्रीवस्तुपाल! त्वयि विद्या यद्यपि वैदिकी न लभते सौभाग्यमेषा कचि न्न सात कुरुते च कश्चन वचः कर्णद्वये य(*)द्यपि । राजानः कृपणाश्च यद्यपि गृहे यद्यप्ययं च व्यय श्चिन्ता काऽपि तथापि तिष्ठति न मे श्रीवस्तुपाले सति १ पद्यमिदमुपदेशतरंगिण्यां ७५तमपत्रे सोमेश्वरदेवनाम्नैव वर्तते ॥ गि०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy