SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] गिरिनार पर्वतस्थाः प्रशस्तिशिलालेखाः । रकश्रीहरिभद्रसूरिपट्टालंकरण श्रीविजय सेन सूरिप्रतिष्ठित श्रीऋषभदेवप्रमुख चतुर्विंशतितीर्थं करालंकृतोऽयमभिनवः समण्ड(*) पः श्रीसंमेतमहातीर्थावतारप्रधानप्रासादः कारितः ॥ चेतः किं कलिकाल ! सालसमहो ! किं मोह ! नो हस्यते ?, तृष्णे ! कृष्णमुखाऽसि किं ? कथय किं विघ्नौघ ! मोघो भवान् ? । : किं नु सखे ! ? न खेलति किमप्यस्माकमुज्जृम्भितं, ब्रूमः सैन्यं यत् किल वस्तुपालकृतिना धर्मस्य संवर्मितम् यं विधुं बन्धवः सिद्धमर्थिनः शत्र ( * ). . पश्यन्ति, वर्ण्यतां किमयं मया ? 1 ॥ २ ॥ वैरं विभूति - भारत्योः, प्रभुत्व - प्रणिपातयोः । तेजस्विता - प्रशमयोः, शमितं येन मन्त्रिणा ॥ ३॥ ........ दीपेः स्फूर्जति सज्जकज्जलमलः स्नेहं मुहुः संहरन्निन्दुर्मण्डलवृत्तखण्डनपरः प्रद्वेष्टि मित्रोदयम् । सूरः क्रूरतरः परस्य सहते तेजो न तेजस्विन स्तत् केन प्रतिमं ब्र (*) वीमि सचिवं श्रीवस्तुपालाभिधम् ? याताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति, स्थानस्थाननिवासिनो भवपथे पान्थीभवन्तो जनाः ? । अस्मिन् विस्मयनीयबुद्धिजलधिर्विध्वस्य दस्यून् करे, कुर्वन् पुण्यनिधिं धिनोति वसुधां श्रीवस्तुपालः परम् दधेऽस्य वीरधवलक्षितिपस्य राज्यभारे धुरंधरधुरा (*) श्रीतेजपालसचिवे दधति स्वबन्धुभारोद्धृतावविधुरैकधुरीणभावम् इह तेजपालसचिवो, विमलितविमलाचलेन्द्रममृतभृतम् । कृत्वाऽनुपमसरोवरममरगणं प्रीणयांचक्रे Jain Education International 1 G For Private & Personal Use Only ॥ १ ॥ || 8 || ॥ ५॥ ॥ ६॥ ते श्रीमलधारिश्रीनरचन्द्रसूरीणाम् ॥ ह वालिगसुतसहजिगपुत्राऽऽनकतनुजवा जडवनूजः । अलि (*) खदिमां कायस्थः, स्तम्भपुरीयध्रुवो जयतसिंहः ॥ १ ॥ हैरिमण्डप - नन्दीश्वर शिल्पीश्वरसोमदेवपौत्रेण । बकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयम् ॥ २ ॥ श्रीनेमेस्स्रिजगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु, प्रशस्तिः स्वस्तिशालिनी ॥ ३ ॥ ॥ ७ ॥ १ पद्यमिदं नरचन्द्रसूरिकृतवस्तुपालप्रशस्तौ तृतीयपद्यतयाऽपि वर्तते ॥ २ पद्यमिदं नरचन्द्रसूरिकृतवस्तुपालप्रशस्तौ २६ पद्यतयाऽपि दृश्यते ॥ ३ पद्यमिदं धर्माभ्युदयमहाकाव्य नवमसर्गप्रान्तेऽपि दृश्यते ॥ ४ पद्यमिदं प्राचीन जैनलेखसंग्रह २ भागे ४० संख्यगिरिनारसत्कप्रशस्तावपि प्रान्तभागे वर्त्तते ॥ ५ पथमिदं प्राचीनमैनलेखसंग्रह २ भागे ४०-४१ संख्यगिरिनारप्रशस्त्योरपि प्रान्तभागे दृश्यते । ६ पद्यमिदं संग्रह १ भागे ३८-४०-४२-४३ संख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्तते ॥ प्राचीन जैन www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy