SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] गिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः । ककीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुञ्जयंतमहातीर्थे आत्मनस्तथा स्वधर्मचारिण्याः प्राग्वाटज्ञातीय ठ० श्रीकान्हडपुत्र्याः ठ० राणुकुक्षिसंभूताया महं० श्रीललितादेव्याः (*) पुण्याभिवृद्धये श्रीनागेंद्रगच्छे भट्टारकश्रीमहेंद्रसूरिसंताने शिष्यश्रीशांतिसूरिशिष्यश्रीआणंदररि-श्रीअमरमरिपट्टे भट्टारकश्रीहरिभद्रसरिपट्टालंकरणप्रभुश्रीविजयसेनमरिप्रतिष्ठितश्रीअजितनाथदेवादिविंशतितीर्थकरालंकृतोऽयमभिनवः समंडपः श्रीसम्मेतमहातीर्थावतारप्रासादः कारितः ॥ (*) पीयूषपूरस्य च वस्तुपालमन्त्रीशितुश्चायमियान् विमेदः । एकः पुनर्जीवयति प्रमीतं, प्रमीयमाणं तु भुवि द्वितीयः ॥१॥ श्रीद-श्रीदयितेश्वरप्रभृतयः संतु क्वचित् तेऽपि ये, प्रीणंति प्रभविष्णवोऽपि विभवै किंचनं कंचन । सोऽयं सिंचति कांचनैः प्रतिदिनं दारिद्रयदावानल प्रम्लानां पृथिवीं नवीनजलदः श्रीवस्तुपालः (*) पुनः ॥२॥ प्रातः ! पातकिनां किमत्र कथया दुर्मत्रिणामेतया ?, येषां चेतसि नास्ति किंचिदपरं लोकोपकारं विना । नन्वस्यैव गुणान् गृणीहि गणशः श्रीवस्तुपालस्य य स्तद्विश्वोपकृतिव्रतं चरति यत् कर्णेन चीर्णं पुरा भित्त्वा भानुं भोजराजे प्रयाते, श्रीमुंजेऽपि स्वर्गसाम्राज्यभाजि । एकः संप्रत्यर्थिनां वस्तुपालस्तिष्ठत्यश्रु (*) स्यंदनिष्कंदनाय ॥४ ॥ चौलुक्यक्षितिपालमौलिसचिव ! त्वत्कीर्तिकोलाहल___स्त्रैलोक्येऽपि विलोक्यमानपुलकानंदाश्रुभिः श्रूयते । किं चैषा कलिदूषिताऽपि भवता प्रासाद-वापी-प्रपा कूपा-ऽऽराम-सरोवरप्रभृतिभिर्धात्री पवित्रीकृता से श्रीतेजःपालः, सचिवश्चिरकालमस्तु तेजस्वी । येन वयं निश्चिताश्चिंतामणिने(*)व नंदामः । लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोऽसौ । मंत्रित्वमत्र कुरुतां, कल्पशतं कल्पतरुकल्पः पुरापादेन दैत्यारे वनोपरिवर्तिना । अधुना वस्तुपालस्य, हस्तेनाधःकृतो बलिः ॥८॥ दैयिता ललितादेवी, तनयमवीतनयमाप सचिवेंद्रात् ।। नाम्ना जयंतसिंह, जयंतमिन्द्रात् पुलोमपुत्रीव [एते] श्रीगूर्जरेश्वरपुरोहित ठ० श्रीसोमेश्वरदेवस्य ।। १ पद्यमिदं प्राचीनजैनलेखसंग्रह २ भागे ६४ संख्य १०१ संख्यार्बुदाचलसत्कशिलालेखयोः क्रमशः ४७तम प्रथमं च सोमेश्वरदेवकृतिरूपेणैव वर्तते ॥ २ पद्यमिदं प्राचीनजैनलेखसंग्रह २ भागे ६४ संख्यार्बुदाचलसत्कशिलालेखे ४४तम सोमेश्वरदेवकृतिरूपेणैव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy