SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] वस्तुपालस्तुतिकाव्यानि । कर्तुं यद् वस्तुपाल ! प्रभवसि सकले मण्डले तत् तवैव, श्रीमन्मत्रीश ! मन्त्रे स्फुरति निरवधिः काऽपि षट्कर्मसिद्धिः ॥ १५ ॥ चतुर्दशसर्गप्रान्ते ॥ भवति हि विभवो भवः परेषां, तव विभवोऽभिनवस्तु वस्तुपाल! । इह महिममहो यशः प्रसूते, यदयममुत्र परत्र पुण्यलक्ष्मीम् ॥ १६॥ पञ्चदशसर्गप्रान्ते ॥ अचिन्त्यदातारमजातशत्रु, श्रीवस्तुपालं कति नाश्रयन्ति ? । चिन्तामणिः सोऽपि युधिष्ठिरश्च, नान्वर्थसामर्थ्यपदं यदने ॥ १७ ॥ शके शारदपर्वगर्वितशशिज्योत्स्नासपलं तव, त्रैलोक्ये गुणजालकं विलसति श्रीवस्तुपालाद्भुतम् । यत् तादृग्दृढपाशवैशसकृतातकाभिशङ्काः स्फुटं, नैवान्यस्य भवन्ति कीर्तिवरलाः खेलासु हेलास्पदम् षोडशसर्गप्रान्ते ॥ वस्तुपालस्तुतिकाव्यम् । श्रीवस्तुपालमन्त्रिणा सौवर्णमषीमयाक्षरा एका सिद्धान्तप्रतिलेखिता । अपरास्तु श्रीताडकागदपत्रेषु मषीवर्णाञ्चिताः ६ प्रतयः । एवं सप्तकोटिद्रव्यव्ययेन सप्त सरस्वतीकोशा लेखिताः । तदनु श्रीउदयप्रभसूरिभिराशीर्वादः प्रदत्तः । तद्यथा जम्बूद्वीपो जलधिपरिखाभूषितो यावदास्ते, ज्योतिश्चक्रं सुरगिरितटीं पर्यटत्येव यावत् । यावत् कूर्मो वहति वसुधां त्वद्यशःपुञ्जसाधू, जीयाज्जैनं मुखमिव परं पुस्तकं वस्तुपाल ! ॥ उपदेशतरङ्गिणी पत्रम् १४२ ॥ १ पद्यमिदं जिनहर्षीयवस्तुपालचरिते “ कृपालवालं श्रीवस्तुपालं स्तौति स्म कश्चन ।" इत्युल्लेखेनोल्लिखितं वर्तते ।। २ पद्यमिदमुदयप्रभीयवस्तुपालस्तुतौ २५तमं वर्तते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy