SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १२ मलधारिश्रीनरेन्द्रप्रभसूरिविरचिता सङ्ग्रामः क्रतुभूमिरत्र सततोद्दीप्रः प्रतापोऽनलः, श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्द्वारा वि[धी]नां गिरः । मन्त्रीशोऽयमशेषकर्मनिपुणः कर्मोपदेष्टा द्विषो, होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः यः स वीरधवलः क्षितिपावतंसः, कैर्नाम : विक्रम - नयाविव मूर्तिमन्तौ । श्रीवस्तुपाल इति धीरललामतेजःपालश्च बुद्धिनिलयः सचिवौ यदीयौ अनन्तप्रागरुभ्यः स जयति बली वीरधवलः, सरौलां साम्भोधिं भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिष्ठौ कमठपति - कोलाधिपकलामदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुतः युद्धं वारिधिरेष वीरधवलः क्ष्माशक्रदोर्विक्रमः, पोतस्तत्र महान् यशः शतपटाटोपो न पीनद्युतिः । सोऽयं सारमरुद्भिरञ्चतु परं पारं कथं न क्षणाद्, यत्राश्रान्तमरित्रतां कलयतः स्वावेव मन्त्रीश्वरौ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्तिर्दिवं, पातालं च महीतलं च जलधेरन्तश्च नक्तन्दिवम् । घीसिद्धाननिर्मलं विजयते श्रीवस्तुपालाख्यया, तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचैवचिभिः, सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले । वेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि, भ्राम्यन्तस्तनुसाद मन्दितमुदो मन्दाकिनीधार्मिकाः हो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं ? शृणु, भ्रातः ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते । तन्नास्त्येव ममार्थिकुट्टनकथा प्रीतिदरी किन्नरी --- गीतैस्तस्य यशोऽमृतैश्च तदियं मेदस्विता मेऽधिकम् देव स्वर्नाथ ! कष्टं, ननु क इव भवान् ? नन्दनोद्यानपालः, खेदस्तत् कोऽद्य ? केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः । हुमा वास्तदेतत् किमपि करुणया मानवानां मयैव, प्रीत्याऽऽदिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन Jain Education International [ पा For Private & Personal Use Only ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २७ ॥ १ पद्यमिदं नरेन्द्रसूरिनाम्ना निर्दिष्ट प्राचीनलेखसंग्रह भाग २ मध्ये ४१ संख्यगिरिनारसत्कशिलालेखे दशमपद्यतयाऽपि विद्यते ॥ २ 'नीयात्रिका: गिरिनारशिलालेखे ॥ ३ पद्यमिदं नरेन्द्रसूरिनाम्ना निर्दिष्टं प्राचीन लेखसंग्रह भाग २ मध्ये ४१ संख्यगिरिनारसत्कशिलालेखे नवमपद्यतया, पुरातनप्रबन्ध संग्रहगत वस्तुपालप्रबन्धे माणिक्यसूरिउतिया २५६ तमं च वर्तते ॥ ॥ २६ ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy