SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पञ्चमं परिशिष्टम् । मलधारिश्रीनरेन्द्रप्रभसूरिविनिर्मिता वस्तुपालप्रशस्तिः । स्वस्ति श्रीवल्लिसालाय, वस्तुपालाय मन्त्रिणे । यद्यशः शशिनः शत्रुदुष्कीर्त्या शर्वरीयितम् ॥ १ ॥ शौण्डीरोऽपि विवेकवानपि जगत्राताऽपि दाताऽपि वा, सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालाश्रिते । स्वज्योतिर्दहनाहुतीकृततमः स्तोमस्य तिग्मतेः, कः शीतांशुपुरःसरोऽपि पदवीमन्वेतुमुत्कन्धरः ? श्रीवस्तुपालसचिवस्य यशः प्रकाशे, विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं देवः स [प] द्मवसतिश्चलितः समाधेः वास्तवं वस्तुपालस्य, वेत्ति कश्चरिताद्भुतम् । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः, खेलन्ति स्म दवानलच्छलभृतो यस्य प्रतापाद्मयः । जृम्भन्ते स्म च पर्वगर्वितसितज्योतिः समुत्सेकिते, ज्योत्स्ना कन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः कुन्दं मन्दप्रतापं गिरिशगिरिरपाहङ्कृतिः साश्रुबिन्दुः, पूर्णेन्दुः सिद्ध. विधुरिमा पाञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः कुमुदमपमदं कौमुदी निष्प्रमोदा, क्षीरोदः सापनोदः क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् यस्योर्वीतिलकस्य किन्नरगणोद्गीतैर्यशोभिर्मुहुः, स्मेरद्विस्मयलोलमौलिविगलच्चन्द्रामृतोज्जीविनाम् । सृष्टिर्नाभवदीदृशी मम न मेऽप्यवाप्येति गां, मुण्डयरिणद्वधातृशिरसां शम्भुः परं पिप्रिये (?) राकाताण्डवितेन्दुमण्डलमहः सन्दोहसंवादिभिर्यत्कीर्त्तिप्रकरैर्जगत्रयतिरस्कारैकहेवाकिभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा- शूलिनोः, त्वं त्वमिति प्रगल्भरभसं वाचो विचेरुर्मिथः Jain Education International ॥ २॥ For Private & Personal Use Only ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६॥ ॥ ८ ॥ १ पद्यमिदं नरेन्द्रसूरिनाम्ना निर्दिष्टं प्राचीनलेखसंग्रह भाग २ मध्ये ४१ संख्यगिरिनारसत्कशिळा लेखे चतुर्थपद्यतयाऽपि दृश्यते ॥ ॥ ७ ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy