SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २६ मलधारिश्रीनरेन्द्रप्रभसूरिविरचिता अगण्यपुण्योदयसस्यकाश्यपी मघौघनिर्घातनकर्मकर्मठाम् । सहैव सङ्घेन नमस्यकर्मणा, यस्तीर्थयात्रा मकरोन्महामतिः अभ्यर्च्य देवान् पथि साधुमण्डलीमाराध्य शुद्धाशन-पानकादिभिः । उद्धृत्य दीनानुपकृत्य धार्मिकान्, यो यात्रया प्राप पवित्रतां पराम् उद्धृत्य पश्चासरजैनवेश्म, यस्तत्र संस्थाप्य च पार्श्वनाथम् । ॥ ३२ ॥ चकार चौलुक्यपुरे स्वकीर्तिसखीत्वसुस्थां वनराजकीर्तिम् श्रीयुगादिप्रभोर्वेश्मन्यर्बुदाचलमूर्ध्नि यः । श्रेयसे मल्लदेवस्य, मल्लिदेवमतिष्ठिपत् ॥ ३३ ॥ बिभ्राणं परितो जिनेन्द्रभवनान्युच्चैश्चतुर्विंशतिं, तापोत्तीर्णसुवर्णदण्डकलशालङ्कारतारश्रियम् । यः शत्रुञ्जय देवसेवनमनाः शत्रुञ्जयाख्यं जिनप्रासादं धवलक्कनामनि पुरे निर्मापयामासिवान् ॥ ३४॥ गोग्रहप्रोज्झितासूनां देवभूयमुपेयुषाम् । राणभट्टारकाणां यस्तत्रागारमकारयत् ।। ३५ ।। वार्षं तस्य परः स्मेरपद्मां पीयूषबान्धवीम् । प्रपां चाप्रतिमां विश्वप्रीतिदां यो व्यधापयत् ॥ ३६ ॥ पौषधशालाद्वितयं, यस्याssस्ते तत्र मुनिभटाकीर्णम् । कलिशत्रुभीतिभङ्गुरधर्मधराधीशदुर्गनिभम् पुरोत्तमे स्तम्भनकाभिधाने, निवेशने पार्श्वजिनेश्वरस्य । योsकारयत् काञ्चनकुम्भदण्डमखण्डधर्मा शिखरं गरीयः ॥ ३८ ॥ नाभेयं नेमिनाथं च तदीये गूढमण्डपे । सरस्वतीं जगत्यां च स्थापयामास यः कृती ॥ ३९ ॥ अकारयन्नगाकारं, प्राकारं परितोऽत्र यः । निदाघदमनक्रीडाप्रवृत्तं च प्रपाद्वयम् ॥ ४० ॥ यश्चकार नवोद्धारधारि...द्भुतवैभवाम् । सुधासहचरीं तत्र, वापीं व्याकोशपङ्कजाम् ॥ ४१ ॥ भृगुन गरमौलिमण्डनमुनिसुव्रततीर्थनाथभवने यः । देवकुलिकासु विंशतिमितासु हैमानकारयद् दण्डान् [ चतुर्थ Jain Education International 11 30 11 For Private & Personal Use Only ॥ ३१ ॥ ॥ ४२ ॥ || 80 || तस्य गर्भगृहोत्सङ्गे, यस्त्रैलोक्यदिवाकरौ । पार्श्वनाथ- महावीरौ, क्षान्तिधीरो न्यवीविशत् ॥ ४३ ॥ नगराख्ये महास्थाने, चैत्यमाद्यजिनेशितुः । येनोद्धृत्य समुद्दधे, कीर्तिर्भरतचक्रिणः ॥ ४४ ॥ व्याघ्ररोल्य (पल्ल्य) भिधे ग्रामे, पूर्वजैः कारितं पुरा । येन तत्पुण्यवृद्ध्यर्थमुद्धृतं जिनमन्दिरम् ॥ ४५ ॥ निरीन्द्रग्रामे वोडाख्यवालीनाथस्य मन्दिरम् । विघ्नसङ्घातघाताय, प्रजानामुद्दधार यः ॥ ४६ ॥ स्थापयन् सींहुलग्राममण्डने जिनवेशनि । यः श्रीवीरजिनं विश्वप्रमोदमदजीवयत् श्रीवैद्यनाथवरवेश्मनि दर्भवत्यां यान् दुर्मदी सुभटवर्मनृपो जहार । तान् विंशतिं द्युतिमतस्तपनीय कुम्भानारोपयत् प्रमुदितो हृदि वस्तुपालः ॥ ४८ ॥ श्री वीरधवल मूर्तिर्जयतलदेव्याश्च मूर्त्तिरसमश्रीः | श्री मल्लदेवमूर्तिः, स्वमूर्तिरनुजस्य मूर्तिश्च ॥ ४९ ॥ श्रीवैद्यनाथगर्भद्वारबहिर्भित्तिसम्भवे लिये । अन्तर्भक्तिनिमीलितकरकमलाः कारिता येन ॥ ३७ ॥ ॥ ५० ॥ १ श्रीमालवेन्द्रसुभटेन सुवर्णकुम्भानुत्तारितान् पुनरपि क्षितिपालमन्त्री । श्रीवैद्यनाथवरवेश्मनि दर्भवत्यामेकोनविंशतिमपि प्रसभं व्यधत्त ॥ १७५ ॥ उदयप्रभीयायां सुकृतकीर्तिकल्लोलिन्याम् ॥ युग्मम् ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy