SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ चतुर्थं परिशिष्टम् मलधारिश्रीनरेन्द्रप्रभसूरिनिर्मिता वस्तुपालप्रशस्तिः । ॥ ३ ॥ ॥ ४ । स मङ्गलं वो वृषभध्वजः क्रियाज्जटावलीसंवलितांसमण्डलः । यदीयमङ्गं किल सर्वमङ्गलाश्रितं प्रमोदाय न कस्य जायते ? समूलमुन्मूलयितुं सुरद्रुहः, सन्ध्यासमाधौ चुलुकीकृतेऽम्भसि । स्वयम्भुवा यः ससृजे भटाग्रणीः, समग्रशक्तिः स चुलुक्य [इ] त्यभूत् तदन्वयाम्भोधिविधुर्विधूतविरोधिमूलोऽजनि मूलराजः । न कापि दोषोक्तिरभूत्तु यस्य, यशःप्रकाशैर्विशदेऽपि विश्वे य(त)स्यात्मभूः समभवद् भुजदण्डचण्डश्चामुण्डराज इति राजकमौलिरत्नम् । भूवल्लभस्तदनु वल्लभराजदेवस्तन्नन्दनो मुदमुदश्चितवान् प्रजानाम् तस्यानुजन्मा समभूत् परस्त्रीसुदुर्लभो दुर्लभराजदेवः । बभूव भीमो रणभूमिभीमस्ततोऽपि सीमा जगतीपतीनाम् तदात्मजः संयति लब्धवर्णः, कर्णोऽभवत् कर्णसमप्रतापः । श्रीसङ्गमाद् वीररसोऽपि यस्य, बभार शृङ्गारमयत्वमेव सूनुस्तदीयोऽजनि वैरिवीरद्विपेन्द्रसिंहो जयसिंहदेवः । नवेन्दुकुन्दद्युतिभिर्धरित्रीं, यः कीर्तिमुक्ताभिरलञ्चकार अयं हि कविलासकौतुकी, रिपुस्तदस्यास्तु विपर्ययोऽधुना । इतीव यो मालवमेदिनीश्वरं, चकार काराविनिवेशदुःस्थितम् ततोऽभवत् कीर्त्तितालवाल:, कुमारपाल: क्षितिपालभास्वान् । यस्य प्रतापः शिशिरेऽप्यरीणां, स्वेदोदबिन्दूनधिकांश्चकार उदग्रतेजः सुकृतैकमन्दिरं, धराधरेन्द्रः स गिरामगोचरः । व्यधत्त यः शत्रुकलत्रमण्डलीं, महीमशेषों च विहारभूषणाम् तस्मादभूदजयपाल इति क्षितीशः, प्रत्यर्थिपार्थिवकुलप्रलयाश्रयाशः । श्रीमूलराज इति वैरिसमासराजन्निर्व्याजविक्रमनयस्तनयस्तदीयः बन्धुः कनीयान् विजयी तदीयः, श्री भीमदेवोऽस्ति महीमहेन्द्रः । प्रवास दायिन्यपि वैरिवर्गो, बभूव यस्मिन्न वनाभिलाषी ॥ १० ॥ ॥ ११ ॥ १ दूरम्भवा यः... सृजे प्रतौ ॥ २ शेषाववि प्रतौ ॥ Jain Education International For Private & Personal Use Only ॥ १ ॥ २ । ॥ ५ ॥ ॥ ६॥ ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ॥ १२ ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy