________________
श्रीउदयप्रभाचार्यविरचिता
चापोत्कट वंशीय राजवर्णनम्
॥ ११ ॥
राजा श्रीवनराज इत्यभिधया चापोत्कटः कोऽप्यभूद्, गोत्रेण क्रियया च कश्चन वनाद् वीरः समभ्युत्थितः । सूर्येणापि जितेन यस्य महसा चाल्येऽपि दोलातरुच्छाया नाम न नामिता दिशि दिशि क्रोधारुणं धावता ॥९॥ सूर्याचन्द्रमसौ कदाऽप्युदयतश्चेत् पश्चिमायां ततो, राज्यं स्यादिह सन्धयेति सुतया देशं समुद्राहयन् । येनास्यां दिशि वर्धमानमहसा राज्ञा च सूरेण च, प्राप्तेनाभ्युदयं महोदयपतिः पूर्णप्रतिज्ञः कृतः ॥ १० ॥ भूषा भुवोऽण हिलपाटकनामधेया, येन व्यधायि किल गूर्जरराजधानी । यत्रोदयन्नवनवाद्भुतभोगभाग्यश्रीणां नृणां बहुतृणं त्रिदशौ सोऽपि एकाऽपि प्रमदा मदालसवपुर्यत्र प्रपापालिका, बिभ्राणा करकैरवेण करकं पूर्ण जलैरुज्ज्वलैः । रत्नस्तम्भभवन्निजप्रतिकृतिप्रान्ते कृतप्राञ्जलीन्, यूनो वीक्ष्य मृदुस्मितेन तनुते लज्जाविलक्षस्थितीन् ॥ १२ ॥ अस्मिन्नुन्नतवेश्ममौलिषु भवान् भावी सखेदः सखे !, चक्रप्रस्खलनाकुली कृतरथस्तस्मादितो गम्यताम् । भिन्नान्तस्तमसः सुवर्णकलशाश्चैत्यालिचूलाजुषः, संज्ञां चक्रुरधीरकेतनकरैर्यत्रेति मित्रं प्रति ॥ १३ ॥ स्फूर्जद्गुर्जर मण्डलावनिवधूवक्त्रोपमेऽस्मिन् पुरे, चैत्यं किञ्च विशेषकं व्यरचयत् पश्चासराहं नृपः । यस्योच्चैः कलशश्चकास्ति रुचिभिः किञ्चिद्विभिन्नाम्बरश्यामत्वव्यपदेश केशपदवीसी मन्तसीमामणिः॥ १४ ॥ धात्री धुरीणभुजनिर्जितभोगिराजः, श्रीयोगराज इति भूरमणस्ततोऽभूत् । यस्य प्रतापतरणिस्तरवारिमेघमूर्त्त्यन्तरेण नवकीर्तिजलं ववर्ष आसीदीशो दोष्मदादित्यरत्नादित्यो रत्नादित्य इत्यस्य पट्टे । तीव्रं तेजोवह्निमह्नाय यस्यावर्षत् खङ्गः शत्रुसंवर्तकाब्दः जातः करीन्द्रोद्धुरवैरिसिंहः, श्रीवैरिसिंहस्तदिलाविलासी । यत्कीर्तिकुल्या स्तुतिकैतवेन, चिक्रीड लोकाननकाननेषु
।। १५ ।।
श्री क्षेमराज इति तद् विरराज राजा, येनोद्धृतेऽपि भुवने कृश एव शेषः । विस्मृत्य नृत्यदुरगीभर गीयमानतत्कीर्तिपानरसिको रसनं सुधायाः
॥ १८ ॥ राजा चामुण्डराजस्तद्, भूमण्डलममण्डयत् । ससर्प विश्वे यस्याऽऽज्ञा, नरेन्द्रैरप्यलङ्घिता ॥ १९ ॥ चौलुक्य वंशीयनरपतिवर्णनम्
Jain Education International
[ प्रथमं
For Private & Personal Use Only
॥ १६॥
॥ २० ॥
आहडस्तदजनि क्षितिनेता, यस्य बाहुरिह नूतनराहुः । एककालगिलितौ रिपुतेजः - कीर्तिसूर्य-शशिनौ न मुमोच नम्रारीन्दुमुखीमुखेन्दु विजयस्मेरक्रमाम्भोरुहः, श्रीभूमिर्भुवनैकभूषणमभूर्ते तद्भूर्विभुर्भूभटः । यत्कीर्तिर्गगनेऽपि पुष्यनिकरः स्वर्गेऽपि दुग्धोदधिः, क्ष्माखण्डेऽपि हरस्मितं विलसति श्वभ्रेऽपि चन्द्रप्रभा २१ पीनश्रीर्भुजपन्नगोऽजनि यशोवार्धिर्जजृम्भे मुहुः, कम्पं खड्गलता ततान परितो जज्वाल तेजोऽनलः । यस्य क्षुण्णविपक्षवर्गवनितानिःश्वासवातोर्मिभिर्जेतुः केतुचलाऽप्यभूदविचला चित्रं जयश्रीरसौ ॥ २२ ॥ स्वस्रीयः श्रयति स्म तस्य पदवीं चौलुक्यलक्ष्मीशिरोमाणिक्यं हिमवद्विजिष्णुमहिमा श्रीमूलराजो नृपः । रेजे यस्य तमोरिपुत्रिपुरुषप्रासादकेतुच्छलादाकाशेऽपि विकाशिकाशविशदा कीर्तिस्त्रिमार्गा नदी ॥२३॥ १ सुनया कां० ॥ २ व शूरे मुद्रिते ॥ ३ चैत्ये मुद्रिते ॥ ४ तू पहूविभु कां० ॥
॥ १७ ॥
www.jainelibrary.org