SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ॥३७॥ परिशिष्टम् ] लिखितप्रतिप्रान्तगता वस्तुपालादिप्रतिबद्धाः प्रशस्तयः । तस्याः पादतलप्रपातरभसोड्डीनैरिवोड्डामरै स्तेनातस्तरिरे तरङ्गितयशःकिञ्जल्कजालैर्दिशः विश्वेऽस्मिन् कस्य चेतो हरति नहि समुल्लास्य विश्वासमुच्चैः, प्रौढश्वेतांशुरोचिःप्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु भिया लीयते गहरेषु, स्वर्गोत्सजानुपास्ते भजति जलनिधिं याति पातालमूलम् ॥ ३८ ॥ एतेभ्यः प्रभुणा सगौरवमहं तावत् प्रदत्ता परं, देश देशममी भ्रमन्ति तदहं गच्छाम्यमीभिः समम् । नो चेत् काऽप्यपरा मिलिष्यति वधूस्तत्रेति भीत्या ध्रुवं, कीर्तिर्यस्य गुणाननु भ्रमति स श्रीवस्तुपालः कृती ॥ ३९ ॥ सोऽयं धात्री धवलयति को वस्तुपालोऽचलेन्द्र स्तस्मादाविर्भवति समरे काऽपि दोःस्फूर्तिगङ्गा । मस्यां ममाः प्रतिवसुमतीवल्लभानां समन्तात् , सम्पद्यन्ते खलु पुनरनावृत्तये कीर्तयस्ताः ॥४०॥ छ । (पाटण संघवीपाटक-ताडपत्रीय-भंडार) महामात्य श्रीवस्तुपालसुतजैत्रसिंहलेखित पुस्तिका प्रशस्तिः । प्राग्वाटान्वयमण्डनं समजनि श्रीचण्डपो मण्डपः, ____श्रीविश्रामकृते तदीयतनयश्चण्डप्रसादाभिधः । सोमस्तत्प्रभवोऽभवत् कुवलयानन्दाय तस्याऽऽत्मभू राशाराज इति श्रुतः श्रुतरहस्तत्त्वावबोधे बुधः तज्जन्मा वस्तुपालः सचिवपतिरसौ सन्ततं धर्मकर्मा लंकर्मीणैकबुद्धिर्विबुधजन[चम ?] त्कारिचारित्रपात्रम् । प्राप्तः सङ्घाधिपत्वं दुरितविजयिनी सूत्रयन् सङ्घयात्रां धर्मस्यौज्ज्वल्यमाधात् कलिसमयमयं कालिमानं विलुप्य यस्याग्रजो मल्लदेव उतथ्य इव वाक्पतेः । उपेन्द्र इव चेन्द्रस्य तेजःपालोऽनुजः पुनः चौलुक्यचन्द्रलूणप्रसादतनुजस्य वीरधवलस्य । यो दधे राज्यधुरामेकधुरीणं विधाय निजमनुजम् ॥ २ ॥ ॥४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy