SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] श्रीवस्तुपालकृता आराधना । महामात्यश्रीवस्तुपालकृता आराधना । न कृतं सुकृतं किञ्चित् , सतां संस्मरणोचितम् । मनोरथैकसाराणामेकमेव गतं वयः ॥१॥ अर्हन्तस्त्रिजगद्वन्द्यान् , सिद्धान् विध्वस्तबन्धनान् । साधूंश्च जैनधर्म च, प्रपद्ये शरणं त्रिधा ॥२॥ कृतं षड्विधजीवानां, पीडनं क्रीडयाऽपि यत् । हास्यादिना विमूढेन, यन्मृषा भाषितं मया ॥३॥ परद्रव्येष्वदत्तेषु, यन्मनोऽपि नियोजितम् । कथञ्चिदभिलाषोऽपि, यदब्रह्मणि निर्मितः ॥४॥ मूर्च्छया विहितः कश्चिदाग्रहो यत् परिग्रहे । स्वप्नेऽप्याऽऽविष्कृता या च, रजनीभोजने स्पृहा ॥५॥ चक्रे कोपश्च यत्किञ्चिद् , या च काचिदहकृतिः । माया लोभश्च यस्तत्र, मिथ्या दुष्कृतमस्तु मे। यद् वात्सल्यं कृतं नैव, यद् गुणा नानुमोदिताः । गुरवो यदवज्ञाताः, संस्तुता यत् कुतीर्थिकाः ॥७॥ कुदेशना च या चक्रे, यत् सिद्धान्तेऽप्यवासना । यत् सत्कर्मप्रमादश्च, निन्दामि तदशेषतः ॥ ८ ॥ ज्ञान-दर्शन-चारित्रं, गोचरे विहितं च यत् । मार्गानुसारतः सर्वांस्ताम्येयोरनुमादये (?) ॥९॥ त्यजामि पापमाहारं, बाह्ये मध्यमखण्डतः । श्रयेऽहं सुकृतं पारभविकं दुष्कृतं त्यजन् ॥१०॥ ॥ इति मन्त्रीश्वरश्रीवस्तुपालकृता आराधना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy