________________
ma.
G
१४
॥ सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः॥ . भस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा । मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ बहवो निवसन्त्यत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसम्मान्या धर्मकर्मपरायणाः॥ श्रीडालचन्द इत्यासीत तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकरः॥ बाल्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुर्या तधर्मार्थनिश्वयः ॥ कुशाग्रीयस्वबुद्ध्यैव सदृत्त्या च सुनिष्ठया। उपायं विपुलां लक्ष्मी कोट्यधिपोऽजनिष्ट सः॥ तस्य मन्नुकुमारीति सन्नारीकुलमण्डना । अभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा । श्रीबहादुरसिंहाख्यो गुणवाँस्तनयस्तयोः । अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः ॥ प्राप्ता पुण्यवता तेन पत्नी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठ पुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् पितुर्दक्षिणबाहुवत् ॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सूनुरिन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥
त्रयोऽपि सत्पुत्रा आप्तभक्तिपरायणाः। विनीताः सरला भव्याः पितुर्मार्गानुगामिनः ॥ भन्येऽपि बहवस्तस्याभवन् स्वस्त्रादिबान्धवाः । धनैर्जनैः समृद्धः सन् स राजेव व्यराजत ॥
अन्यच्चसरस्वत्यां सदासक्तो भूत्वा लक्ष्मीनियोऽप्ययम् । तत्राप्यासीत् सदाचारी तचित्रं विदुषां खलु॥ नाहंकारो न दुर्भावो न विलासो न दुर्व्ययः । दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सज्जनान् प्रति । बन्धुजनेऽनुरकोऽभूत् प्रीतः पोष्यगणेष्वपि ॥ देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य-संस्कृति-सत्कलाप्रियः ॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं धनम् ॥ गत्वा सभा-समित्यादौ भूत्वाऽध्यक्षपदान्वितः । दत्त्या दानं यथायोग्यं प्रोत्साहिताश्च कर्मठाः ॥ १८ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया । अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कर्तुं किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग्-ज्ञानरुचिः स्वयम् । तस्मात् तज्ज्ञानवृद्ध्यर्थं यतनीयं मयाऽप्यरम् ॥ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थ स्थाने शा न्ति नि के त ने। सिंघीपदाङ्कितं जै न ज्ञा न पीठ मतीष्टिपत् ॥ श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः । स्वीकर्तुं प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य-सौहार्द-स्थैयौदार्यादिसद्गुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना । रस-नांगाङ्के-चन्द्राद्धे तत्प्रतिष्ठा व्यधीयत ॥ प्रारब्धं मुनिना चापि कार्य तदुपयोगिकम् । पाठनं ज्ञानलिप्सूनां तथैव ग्रन्थगुम्फनम् ॥ तस्यैव प्रेरणा प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रयसे चषा प्रारब्धा ग्रन्थमालिका॥ उदारचेतसा तेन धर्मशीलेन दानिना। व्ययितं पुष्कलं द्रव्यं तत्तकार्यससिद्धये ॥ छात्राणां वृत्तिदानेन नैकेषां विदुषां तथा । ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् । जलवातादिकानां तु प्रातिकूल्यादसौ मुनिः । कार्यं त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थितः ॥ तत्रापि सततं सर्व साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः॥ नन्द-निध्य-चन्द्राब्दे जाता पुनः सुयोजना । ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूतना ततः सुहृत्परामर्शात् सिंधीवंशनभस्वता । भा चि चा भ व ना येयं ग्रन्थमाला समर्पिता ॥ आसीत्तस्य मनोवाञ्छाऽपूर्वा ग्रन्थप्रकाशने । तदर्थ व्ययितं तेन लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद् विधेर्हन्त ! दौर्भाग्याचास्मबन्धूनाम् । स्वल्पेनैवाथ कालेन स्वर्ग स सुकृती ययौ ॥ इन्दु-ख-शून्य नेत्राब्दे मासे आषाढसझके । कलिकाताख्यपुयां स प्राप्तवान् परमां गतिम् ॥ पितृभक्तैश्च तत्पुत्रैः प्रेयसे पितुरात्मनः । तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुनः ॥ इयं ग्रन्थावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा। भूयाद् भूत्यै सतां सिंधीकुलकीर्तिप्रकाशिका विद्वजनकृशाहादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके श्रीसैंघी ग्रन्थपद्धतिः ॥
Murrrrom Mmmmmmmm
००GSC000.0GSM
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org