________________
मत्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[४६६-४७३ नन्दीमहोत्सवं द्रष्टुं समायातानुपासकान् । आबालवृद्धलोकं च याचकानपि कामिताम् ॥ ४६६ सर्वेषामपि सौवर्णमुद्रां दातुमना अपि । रौप्यमुद्रैव माङ्गल्यहेतुरित्युदितो जनैः ॥ ४६७ कश्मीरजमिलच्चारुचन्दनाम्बुच्छटाद्भुतम् ।
रौप्यनाणकदानेन मानयामास मञवित्॥ ४६८ - त्रिभिर्विशेषकम् । व्याख्या- मन्त्रवित् मन्त्रमालोचं वेत्तीति मन्त्रविन् मन्त्री श्रीकर्मचन्द्रः, नन्दीमहोत्सवं द्रष्टुं वीक्षितुं समायातान् समेतान्, उपासकान् श्राद्धान् ; च पुनराबालवृद्धलोकं बालवृद्धलोकान्, आ अभिव्याप्य आबालवृद्धलोकम् ; अपिशब्दः समुच्चये, याचकान् वनीपकान्, कामितामभीष्टाम् , सर्वेषामपि सौवर्णमुद्रां दातुमना अपि दित्सुरपि, रौप्यमुर्दैव माङ्गल्यहेतुर्मङ्गलत्व" कारणमिति जनैरुदित उक्तः सन् , कश्मीरजेन घुसृणद्रवेण मिलन्ती श्लिष्यन्ती चार्वी मनोहरा या चन्दनाम्बुच्छटा ताभिरद्भुतमाश्चर्यकारि यथा स्यात्तथा, रौप्यनाणकदानेन, मानयामास मानयति स्म अपूपुजत् । मानण् पूजायाम् । 'मङ्गलं तु प्रशस्ते स्यात्' भावे व्यङि मागत्यम् ॥ ४६६-४६८
जैनयाचकभूपीठकीर्तिक्षीराब्धिवृद्धये ।
तदा प्रसारयामास चन्द्रः सद्दानचन्द्रिकाम् ॥ ४६९ व्याख्या-चन्द्रः श्रीकर्मचन्द्र:, शशी च, जैनयाचका एव भूपीठं तत्र कीर्तिरेव क्षीराब्धिः, तस्य वृद्धय उत्कल्लोलीकरणाय, तदा नन्दीमहोत्सवे, सद्दानमेव चन्द्रिका कौमुदी प्रसारयामास प्रसारयति स्म प्रवर्तयति स्मेति यावत् । कीर्तिवृद्धये दानं ददावित्यर्थः ॥ ४६९
प्रतिज्ञां कृतवानेवं मन्त्रीशोऽवसरे सति ।
सुप्रापं सर्वमप्यस्ति दुष्प्रापोऽवसरः सताम् ॥ ४७० व्याख्या-मन्त्रीशः श्रीकर्मचन्द्रः, अवसरे समये सति, एवमिति प्रकारेऽर्थेऽव्ययम् , एवमीदप्रकारां प्रतिज्ञां सङ्गरं कृतवांश्चके । यतः सर्वमपि सुप्रापं सुखेन प्राप्यत इति सुप्रापमस्ति, परं सतां सज्जनानामवसरो यथोचितसमयो दुष्प्रापो दुर्लभः ॥ ४७०
यता-कस्य न स्युः प्रियाः प्राणा लक्ष्मीः कस्य न वल्लभा।
सतामवसरे प्राप्ते द्वयमेतत् तृणायते ॥ ४७१ B व्याख्या-कस्य जन्तोः, प्राणा असवः, प्रिया इष्टा न स्युः; तथा कस्य लक्ष्मीः श्रीन वल्लभा प्रिया; सतामवसरे प्राप्ते वैरिगणमार्गणसाङ्कट्ये समुपस्थिते, एतद् द्वयम् असु - लक्ष्मीरूपं तृणायते तृणमिव आचरति तृणायते । तृणवत्प्राणान् लक्ष्मी च त्यजन्तीत्यर्थः ॥ ४७१ अथ प्रतिज्ञातमेवाऽऽह -
याचकेभ्यो मया देयं नव ग्रामा गजा नव ।
शतानि पश्च सप्तीनां सन्तो यद्गुणवत्प्रियाः ॥ ४७२ व्याख्या-मया याचकेभ्यो नव ग्रामाः संवसथाः, ग्रसते बुझ्यादीन् गुणानिति ग्रामः। करादिगम्यो ग्राम इत्येके। तथा नव गजाः, तथा सप्तीनामश्वानां पञ्च शतानि, यद् यस्माद्धेतोः, सन्तः सजनाः, गुणवन्तो गुणिनः प्रिया येषां ते गुणवत्प्रियाः, अत एव गुणिप्रियत्वेन मन्त्री एतावद दानं तेभ्यो देयत्वेनाचीकथदिति भावः ॥ ४७२
एवमङ्गीकृतं कोटीदानं देयतया तदा। दानमीहङ्क न केनापि दत्तपूर्व पदोत्सवे ॥ ४७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org