________________
मत्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[४५१ - ४५८ मित्याद्युक्त्वा, सिंहस्य श्रीराजसिंहस्य अयं सैंहः, तं महादेशमुत्सवाज्ञां प्राप्य, इवेल्यध्याह्रियते । सिंहः प्रक्षरित इव अभवद् । यथा सिंहः प्रक्षरितोऽपरिभवनीयो भवति तथाऽयमपि श्रीराजसिंहाज्ञामाप्य द्विगुणितोत्साहोऽभूत् । राजसिंहनृपेणाप्युक्तं यथा त्वमेवोत्सवं विधेहीति ॥ ४५०
ततः पौषधशालायामाहूय महिमाधनः ।
सङ्ग्रामसूनुः श्रीसद्धं सामोदमिदमुक्तवान् ॥ ४५१ व्याख्या- ततः श्रीराजसिंहादेशप्राप्त्यनन्तरम्, सङ्ग्रामसूनुः श्रीकर्मचन्द्रः, पौषधशालायां श्रीसङ्घमाहूय आकार्य, सामोदं सहर्ष यथा स्यात्तथा, इदं वक्ष्यमाणम् , उक्तवानूचिवान् । किंभूतः ? महिमैव माहात्म्यमेव धनं यस्यासौ महिमाधनः ॥ ४५१
सर्वकार्यक्षमः सङ्घो यद्यप्यस्ति तथापि मे।
एतन्महविधानाज्ञा प्रसद्याद्य प्रदीयताम् ।। ४५२ व्याख्या-सद्यो यद्यपि सर्वकार्यक्षमः सकलकृत्यविधाने समर्थः, तथापि श्रीसद्धेनैतस्य महस्य उत्सवस्य विधान आज्ञा आदेश एतन्महविधानाज्ञा, प्रसघ अनुगृह्य, अद्य मे मम प्रदीयतां वितीर्यताम् ॥ ४५२
ततः सङ्घः समर्थोऽपि हर्षपूरितमानसः ।
मत्वैतत्कृत्ययोग्यत्वमस्येति प्रत्यपद्यत ॥ ४५३ व्याख्या-ततो मन्त्रिकथनानन्तरम् , समर्थोऽपि क्षमोऽपि सङ्घः, हर्षेण पूरितं भृतं मानसं चेतो यस्य स हर्षपूरितमानस एवंविधः सन् , अस्य श्रीकर्मचन्द्रस्य, एतस्मिन् कृत्ये बृहत्पदनन्दीकरणलक्षणे कार्ये, योग्यत्वमौचित्यं मत्वा ज्ञात्वेति मयुक्तं प्रत्यपद्यत खीचक्रे ॥ ४५३
निशाजागरनिर्माणहेतवे प्रतिमन्दिरम् । साधर्मिकाणां मन्त्रीशस्ततः प्रेषितवानिति ॥ ४५४ सरङ्गमेकं नीरङ्गीवासः पूगफलानि च ।
सेरप्रमाणमत्स्यण्डी सरसं पत्रबीटकम् ॥ ४५५ - युग्मम् । व्याख्या-ततोऽनन्तरम् , मन्त्रीश: श्रीकर्मचन्द्रः, निशाजागरस्य रात्रिजागरस्य, निर्माणहेतवे विधानाय, साधर्मिकाणां समानधर्मणां श्राद्धानाम् , प्रतिमन्दिरं प्रतिगृहम् , इति वक्ष्यमाणं प्रेषितवान् मुमोच। तदेवाऽऽह -एकं सरङ्ग रङ्गो लौहित्यादिस्तत्सहितं नीरङ्गीवासः, लोकरूढ्या चूनडीति, च पुनः पूगफलानि क्रमुकफलानि, तथा सेरप्रमाणा या मत्स्यण्डी, फाणितं 25 तद्विकृतिः पुनर्मत्स्यण्डी तस्य खण्डस्य विकारस्ताम् । यद धन्वन्तरिः- 'शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका सिता' इति । 'मत्स्यण्डिका खण्डसिता क्रमेण गुणवत्त।' इति वाग्भटः। तथा सरसं सखादं पत्रबीटकमहिवल्लीपत्रबीटकम्॥४५४-४५५
___ श्राविकाभिः समग्राभिरेकीभूय मनोहरैः।
श्रीदेवगुरुसत्सङ्घगीतैर्जागरितं निशि ॥ ४५६ व्याख्या-समग्राभिः समस्ताभिः, श्राविकाभिः एकीभूय-एकत्रस्थल ऐकमत्यं विधायेत्यर्थः । निशि रात्री, मनोहरैः ० रुचिरैः श्रीदेवगुरुसत्सङ्घानां सम्बन्धीनि यानि गीतानि गेयानि, तैर्जागरितं जागरणं कृतम् । रात्रिजागरो विहित इत्यर्थः॥ ४५६
शुक्लायां फाल्गुने मासे द्वितीयायां जयातिथौ । मध्याहे योगनक्षत्रलग्नशुद्धिसमन्विते ॥ ४५७ आहूतानेकगच्छीयोपासकवातसुन्दरे । वस्त्राभरणमुक्ताभिर्मण्डिते सदुपाश्रये ॥ ४५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org