SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ मनिकर्मचन्द्रवंशावलीप्रबन्ध । [३६९ - ३७६ व्याख्या-प्राज्ञैः पण्डितैः कर्मचन्द्रो मन्त्रीत्युक्ते सति, अथ अनन्तरम् , साहिरकवरो मत्रिणमाहूय आकार्य, प्राह प्रकर्षण आह उवाच । आहेत्युवाचार्थे तिडन्तप्रतिरूपकमव्ययम् । हे मन्त्रिन्। ते तय गुरुः श्रीजिनचन्द्रसूरियथा येन प्रकारेणाऽत्र लाभपुर आयाति तथा त्वं कुरु विधेहि ॥ ३६८ ततो विचार्य मन्त्रीशचतुर्बुद्धिनिधिः सुधीः । श्रीजैनशासनोयोतकरणकपरायणः ॥ ३६९ फुरमानकरोवारसौरत्राणनरद्वयम् । मुमोच गौर्जरबायां गुरोराह्वानहेतवे ॥ ३७० - युग्मम् । व्याख्या-ततोऽनन्तरम् , मन्त्रीशः श्रीकर्मचन्द्रः, विचार्य विमृश्य, गुरोः श्रीजिनचन्द्रसूरेराहानहेतवे आकारणनिमित्तम् , गौर्जरत्रायाम् , फुरमानमादेशपत्रं करे यस्यैवंविधं तथोदारं यत्सौरत्राणनरद्वयं साहिसत्कपुरुषयुगं फरमानकरोदार"सौरत्राणनरद्वयं मुमोच प्राहिणोत् । किम्भूतो मन्त्रीशः ? चतसृणां बुद्धीनामौत्पातिकी-वैनयिकी-कर्मजा-पारिणामिकीरूपाणां निधिः शेवधिश्चतुर्बुद्धिः; पुनः किम्भूतः ? सुधीविचक्षणः, पुनः किम्भूतः ! श्रीजैनशासनस्योदयोतकरणे प्रभासन एकोऽद्वितीयः परायणः प्रवणः श्रीजैनशासनोहयोतकरणैकपरायणः ॥ ३६९-३७० साहिपत्रं समासाद्य स्तम्भतीर्थे यतीश्वराः। जिनचन्द्राः समाजग्मू राजधानीपुरं ततः ॥ ३७१ व्याख्या-ततोऽनन्तरं जिनचन्द्रा यतीश्वराः स्तम्भतीर्थे साहिपत्रं साहिफुरमानं समासाद्य प्राप्य, राजधानीपुरं अहम्मदावादं समाजग्मुः समायाताः ॥ ३७१ पुनः शकुनसामग्रीसजातद्विगुणोद्यमाः। विहृत्य मध्यमार्गेण सङ्घमाशास्य गौर्जरम् ॥ ३७२ भूत्वा शिवपुरीमध्यं लास्वा लाभं दयामयम् । सुरत्राणप्रभुप्रत्तं प्राप्ता जावालसत्पुरम् ॥ ३७३ - युग्मम् । व्याख्या-पुनर्भूयः, श्रीजिनचन्द्राः, शकुनानां दैवशंसिनिमित्तानां या सामग्री समुदायस्तथा सजात उत्पनो द्विगुण उद्यमः साहिमिलनायोत्साहो येषां ते शकुनसामग्रीसञ्जातद्विगुणोद्यमा एवंविधाः सन्तः, मध्यमार्गेण अन्तरालवर्ममा विहृत्य प्रस्थाय, तथा गौर्जरं सङ्घमाशास्य धर्मलामेत्याशीर्वचनं दत्त्वा, तथा शिवपुरीमध्यं भूत्वा, तथा सुरत्राणप्रभुप्रत्तं दयामयं लाभं लात्वा, जावालसत्पुरं प्राप्ताः ॥ ३७२ - ३७३ प्रेषितः साहिना तत्र फुरमानयुगध्वगः। ध्यात्वेति गुरवो दुःखं मामुयुः सत्वरागतेः ॥ ३७४ व्याख्या-तत्र जावालपुरे, साहिना सत्वरागतेस्त्वरितागमनेन, गुरवः श्रीजिनचन्द्रसूरयः, दुःखमसुखं मा आफ्नुयुर्मा प्राप्नुवन्तु इति ध्यात्वा विमृश्य, फुरमानयुक् फुरमानसहितोऽध्वगः पथिकः प्रेषितो मुक्तः । मा आप्नुयुरित्यत्र निमन्त्रणे लिङ्लोटौ । 'सायं प्रत्युद्रजेदपि' इति कालिदासप्रयोगवत् ॥ ३७४ विज्ञापितमिति पत्रे गुरुभिः कार्य न देहदौष्कर्यम् । ससुखं ससुखं शनकैः शनकैर्मार्गे समेतव्यम् ॥ ३७५ व्याख्या-साहिना पत्रे फुरमान इति विज्ञापितं विशेषेण ज्ञापितं बोधितम् - यद्गुरुभिर्देहदौष्कयं शरीरक्लेशो न कार्यम्। ससुखं ससुखं - सुखेन सुखेनेत्यर्थः, शनकैः शनकैर्मन्दं मन्दं मार्गे समेतव्यम् ॥ ३७५ स्थित्वा जावालपुरे वर्षावासं ततः कृतोल्लासम् । मासे सहसि विजहुर्मुरवो गुरुदैक्तक्षदिने ॥ ३७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002797
Book TitleMantri Karmachand Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy