________________
पाठक श्रीजयसोमविरचित
अकबरजलालदीनप्रसादतोऽनेककोट्टबलकलितः । मनिकृतमन्त्रयोगात् पञ्चसहस्रीपतिर्जज्ञे ॥ ३३५
व्याख्या - श्रीराजसिंहः अकबरजलालदीनस्य साहे: प्रसादतः अनुग्रहाद्, अनेके बहवो ये कोट्टा दुर्गाणि तैः बलेन च सैन्येन कलितः सहितोऽनेक कोट्टबलकलितः, मन्त्रिणः श्रीकर्म चन्द्रस्य यो मन्त्र आलोचस्तस्य योगात् संयोगाद् मन्त्रिमन्त्रप्रभावादित्यर्थः । पञ्चानां सहस्राणामश्ववारसम्बन्धिनां समाहारः पञ्चसहस्री, तस्याः पतिः खामी, जज्ञे बभूव । पञ्चहजारी'ति ख्यातिं प्राप्त इत्यर्थः ॥ ३३५
३३५ - ३४० ]
दैवयोगान्निजेशस्य वैमनस्यमथान्यदा ।
ज्ञात्वा मन्त्री निजे चित्ते कलिकालविजृम्भितम् ॥ ३३६ आज्ञां राज्ञः समासाद्य समादाय निजं जनम् । मेदिनीतटमध्यास्त स्वामिधर्मधनाधिकः || ३३७ – युग्मम् ।
व्याख्या - अथ अनन्तरम्, अन्यस्मिन् काले, दैवयोगाद् विधिवशात् [ 'शुभाशुभं कर्म दैवम्' इति टिप्पणिः ] निजेशस्यात्मीयप्रभोः राजसिंहस्य, कलिकालस्य विजृम्भितं विलसितं वैमनस्यं चित्तकालुष्यं निजे चित्ते ज्ञात्वा, राज्ञः श्रीराजसिंहस्य आज्ञामादेशं समासाद्य प्राप्य, निजं जनं खजनवर्गं समादाय गृहीत्वा, मेदिनीतटं मेडतापुरेव्याख्यया ख्यातमध्यास्त अध्यतिष्ठदशिश्रयत् । किम्भूतो मन्त्री ! स्वामिधर्म एव धनं तेन अधिकोऽतिशायी खामिधर्मधनाधिकः ॥ ३३६- ३३७
निर्मलं जलमाचम्य नादेयं पङ्किलं पुनः ।
नाssदेयमिति हंसानां ज्ञात्वा नास्थान्नुपान्तिके ॥ ३३८
५५
व्याख्या - हंसानां राजहंसानाम्, निर्मलं विमलम्, नद्यां भवं नादेयं जलमाचम्य पील्ला, पुनर्विशेषे, विशेषेण पङ्किलं तदेव कर्दमवज्जलम्, न आदेयं न स्वीकार्य न पातव्यमित्यर्थः । इति ज्ञात्वा मन्त्री नृपान्तिके श्रीराजसिंहसविधे, न अस्थात् तस्थौ । यथा हंसेन येन पुरा निर्मलं जलं पीतं भवति, स पश्चात्तदेव पङ्किलं जलं पातुं नेहते; तथा अयमपि 20 पुरा प्रसन्नं श्रीराजसिंह नृपं सेवित्वा तमेव कलुषमानसं कथं सेवेतेति भावः । यतः -
'क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि खाश्रयं, ये नोज्झन्ति पुरीषपुष्टवपुषस्ते केचिदन्ये द्विजाः ।
ये च खच्छतरङ्गिणीबिसलसत्कल्लोलसंवर्धिता, गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ॥ १ ॥'
पानविधौ – 'पिबति – धयति - आचमति - पीयते च रसयति चे'ति क्रियाकलापे । नादेयमिति नद्यादिभ्यो दगिति भवार्थे ॥ ३३८
ढग्
Jain Education International
तत्र श्रीपार्श्वनाथस्य फलवर्द्धिपुरेशितुः ।
सेवां कर्तुं प्रवृत्तोऽभूज्जिनदत्तगुरोस्तथा ॥ ३३९
व्याख्या - तत्र मेदिनीतटे, श्रीकर्मचन्द्रः, श्रीफलवर्धिकपुरस्येशिता नायकः फलवर्धिपुरेशिता तस्य फलवर्धिपुरेशितुः श्रीपार्श्वनाथस्य, सेवां भक्तिं कर्तुं प्रवृत्तोऽभूत् । तथा जिनदत्तगुरोः श्रीजिनदत्तसूरेः सेवां कर्तुं प्रववृते ॥ ३३९ स्थानस्थानस्थितानेकनरे शाह्वानसूचकैः ।
मनोऽस्य चञ्चलं नाभूदायातैस्तज्जनैरपि ॥ ३४०
व्याख्या - अस्य श्रीकर्मचन्द्रस्य, मनश्चित्तम्, स्थाने स्थाने स्थिता अवस्थिता येऽनेके बहवो नरेशा नृपा मानसिंहराणाद्याः, तेषां यदाह्वानमामन्त्रणं तत्सूचकैस्तत्पिशुनैस्तेषां नृपाणां जनैस्तज्जनैरायातैरपि न चञ्चलं चपलमभूत् । बहुमी राजभिः स्वप्रधानजनप्रेषणद्वारा आकारितोऽप्यसौ न अस्थिरमना आसीत्, न कस्यापि समीपे जगामेत्यर्थः ॥ ३४०
For Private & Personal Use Only
10
25
30
www.jainelibrary.org