SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २८५ - २९१ ] पाठक श्रीजय सोमविरचित तदेवाह - मदीया सन्ततिर्यावदास्ते च तव सन्ततिः । मत्साम्राज्ये चतुग्रमी भवत्सन्ततिसात्कृता ॥ २८५ व्याख्या - हे अमात्य ! ममेयं मदीया, सन्ततिः सन्तानः पुत्रपौत्रादिः, यावदिति कालावधौ यावत्कालमास्ते विद्यते; च पुनः तव सन्ततिर्यावदास्ते, तावत् मत्साम्राज्ये मदीयराज्ये, चतुर्णां ग्रामाणां समाहारश्चतुग्रमी, भवत्सन्ततिसात्कृता त्वत्सन्ततेरधीना कृता । यो हि मदीये सन्ताने भविष्यति नृपस्तेन त्वत्सन्ततिसमुद्भवस्य मन्त्रिणश्वत्वारो ग्रामा अवश्यं देया अन्येषां च नियम इति । ‘सन्ततिस्तु तनये दुहितर्यपि परम्पराभवे पङ्की' इत्यनेकार्थः । भवत्सन्ततिसादिति 'तदधीनवचने' इति तदधीनत्वार्थ सातिः स्यात् । 'सम्पदा कृभ्वस्तिभिर्योगे' इति ॥ २८५ नाममुद्राङ्कितं पत्रं विधाय लिविगोचरम् । धात्रीधवेन भावेन सचिवाध ददे तदा ।। २८६ Jain Education International व्याख्या - तदा तस्मिन्नवसरे, धात्रीधवेन, श्रीकल्याणमल्लेन, नामाङ्किता मुद्रा ऊर्मिका नाममुद्रा, तयाऽङ्कितं चिह्नितं नाममुद्राङ्कितं पत्रम्, लिविगोचरं विधाय लिखित्वेत्यर्थः । भावेन खाभिप्रायेण, न तु बलात्कारेण, सचिवाय श्री कर्मचन्द्राय ददे अदायि । - 'भावोऽभिप्रायवस्तुनोः । स्वभावजन्मसत्तात्मक्रियालीला विभूतिषु ॥ चेष्टा-योन्योर्बु जन्तौ शृङ्गारादेश्व कारणे । शब्दप्रवृत्तिहेतो च ...... अन्यदा मीरजाख्याभृत् स्वामिद्रोही समागतः । इब्राह्मनामको नागपुरासन्नवसीमनि ॥ २८७ दिल्लीराज्यमुपादित्सुः श्रुत्वेति खचराननात् । सेनां सन्नह्य मन्त्रीशो रायसिंहनृपानुगः ॥ २८८ तं जित्वा वाहिनीं हत्वा वैरिणां रणकर्मणा । जयमासादयामास साहस्येकशिरोमणिः || २८९ – त्रिभिर्विशेषकम् । इत्यनेकार्थः ॥ २८६ अन्यदा साहिना सार्धं गौर्जरावनियायिना । गतस्य रायसिंहस्यानुगेन मननान्धिना ॥ २९० ४७ --- व्याख्या - अन्यदा अन्यस्मिन्नवसरे मन्त्रीशः खामिने साहये द्रुह्यतीत्येवंशीलः स्वामिद्रोही, मीरजेत्याख्यामाख्यातिं बिभर्तीति मीरजाख्याभृद् इब्राह्मनामको 'मीरजा इब्राह्म' इतिनामा, नागपुरस्य आसने समीपे, या खसीमा निजग्रामान्तस्तस्यां नागपुरासन्नखसीमनि, दिल्या योगिनी पुरस्य राज्यं साम्राज्यं दिल्लीराज्यम्, उपादित्सुर्जिघृक्षुः समागतः समाययैौ - इति खचराननात् आत्मीयस्पशमुखात् श्रुत्वा निशम्य, सेनां सैन्यं सन्नह्य सज्जीकृत्य, रायसिंहनृपमनुगच्छतीति रायसिंहनृपानुगो रायसिंहराजानुगामी सन्, तं इब्राह्मं जित्वा विजित्य, तथा रणकर्मणा सङ्घामकृत्येन वैरिणां शत्रूणां वाहिनीं सेनाम्, हत्वा 25 मारयित्वा, जयं विजयमासादयामास आसेदिवान् प्रापेत्यर्थः । किम्भूतो मन्त्रीशः ? साहसं दुष्करकर्म विद्यते येषां ते साहसिनस्तेषां शिरस्येकोऽद्वितीयः शिरोमणिचूडामणिरिव साहस्येकशिरोमणिः, शाकपार्थिवादित्वान्मध्यपदलोपी समासः, महासाहसिक इत्यर्थः ॥ २८७ - २८८ - २८९ महम्मद हुसेनाख्यः ख्यातो यो मीरजाख्यया । निर्जित्य स्वामिसान्निध्यात् किमशक्यं महात्मनाम् ॥ २९१ - युग्मम् । For Private & Personal Use Only व्याख्या – अन्यदा अन्यस्मिन् काले, गौर्जरावनिं गौर्जरदेश भूमिं यातीति गौर्जरावनियायी तेन गौर्जरं प्रति गच्छतेत्यर्थः । 'नन्दिग्रहपचादिभ्यो ल्युणिन्यच' इति ग्रहादेर्णिनिः । साहिना सार्धं समं गतस्य रायसिंहस्य नृपस्य अनु 20 www.jainelibrary.org
SR No.002797
Book TitleMantri Karmachand Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy