________________
मत्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[२६७ - २७१
व्याख्या-अन्येऽपरे लोकपालाः सोमयमवरुणकुबेराख्याः, महीतले भूतले, आशाभेदादाशानां पूर्वादिदिशां भेदाद भिन्नतया भवन्ति । प्राच्याः सोमः, दक्षिणस्या यमः, पश्चिमाया वरुणः, उत्तरस्याः कुबेरोऽधिपतिरिति दिग्भेदात् ते लोकपालाः, नूनं निश्चितमयं प्रत्यक्षोपलभ्यमानः श्रीरायसिंहः, आशासम्पूरणाद् वाच्छाग्रपूरणाद् , अद्भुतो नवो लोकपालः ।
अयमपि लोकपालस्तेऽपि लोकपालाः। परं त आशाभेदाल्लोकपालाः, अयं त्वाशापूरणादित्यद्भुतत्वमस्य । 'आशा ककुभि • तृष्णायाम्' इत्यनेकार्थः ॥ २६६ ।।
पितृराज्यसुधाम्भोधिं वर्धयामास सन्ततम् ।
कलाभिर्वर्धमानाभिर्यो राजेव विराजितः ॥ २६७ व्याख्या- यः श्रीरायसिंहः, वर्धमानाभिर्वृद्धिमासादयन्तीभिः, कलाभिः शिल्पैः, सन्ततं निरन्तरम् । पितृराज्यं कल्याणमल्लनृपसाम्राज्यमेव सुधाम्भोधिः क्षीरसागरस्तं वर्धयामास वर्धयति स्म । किम्भूतः ? राजेव चन्द्र इव, विराजितः " शोभमानः । राजाऽपि कलाभिः षोडशांशरूपाभिर्वर्धमानाभिः सुधाम्भोधिं वर्धयत्येव । 'कला स्यात् कालशिल्पयोः । कलने मूलरैवृद्धौ, षोडशांशे विधोरपि ।' इति ॥ २६७
श्रीराजसिंहनृपतेः साहाय्यमवाप्य सारबलकलितः।
भाग्येन वर्धमानो मन्त्री सौभाग्यवान् जज्ञे ॥ २६८ व्याख्या- मन्त्री श्रीकर्मचन्द्रः, श्रीराजसिंहनृपतेः साहाय्यं साहायकमवाप्य प्राप्य, सारवलेन प्रधानसैन्येन, " कलितः सहितः सन् , सौभाग्यवान् सौभाग्यं जनवाल्लभ्यं तद्वान् , जज्ञे बभूव । सुभगो जात इत्यर्थः । किम्भूतः ? भाग्येन भागधेयेन, वर्धमानो वृद्धिमासादयन् । 'सहायाद्वा' इति वुञ् भावकर्मणोः साहायकम् , पक्षे यञ् साहाय्यमिति ॥ २६८
राज्ञः कल्याणमल्लस्य सुदृष्ट्या कुमराश्रयात् ।
मन्त्रीशः साहसी सोऽभूत् सिंहः प्रक्षरितो यथा ॥ २६९ व्याख्या- साहसं दुष्करकर्म अस्यास्तीति साहसी, स मन्त्रीशः श्रीकर्मचन्द्रः, कल्याणमल्लस्य राज्ञो नृपस्य, सुदृष्ट्या " शोभनदृष्ट्या, तथा कुमराश्रयात् कुमर इति लोकरूढ्या नाम कविभिरपि कैश्चित्प्रयुक्तः कुमारत्वार्थे । यल्लक्ष्यम् -
'विभाव्याथ तयोर्भावं मुनिः कुमरमभ्यधात् । आतिथेयमिदं कन्या तुभ्यं योग्याय जायताम् ॥ १
अन्यदा कुमरोऽवादीत् सशोक इव वल्लभः । त्वत्पदे प्रहितो हन्त ! दुःखमास्ते सुहृन्मम || २ इति शीलतरङ्गिण्यामृषिदत्ताधिकारे। तस्य आश्रय आश्रयणमङ्गीकरणं कुमराश्रयस्तस्माद् रायसिंहक्रोडीकारात्, यथेति सादृश्यार्थे, यथा सिंहः प्रक्षरितस्तथाऽभूत् । अपरिभवनीयो बभूवेति भावः ॥ २६९
सोऽन्यदा श्रीकुमारेण साधं सेवाचिकीर्षया ।
जलालदीसुरत्राणसमीपे गन्तुमैहत ॥ २७० व्याख्या- स श्रीकर्मचन्द्रमन्त्री श्रीकुमारेण श्रीरायसिंहेन सार्धम् , सेवाचिकीर्षया सेवां कर्तुम् , जलालदीसुरत्राणसमीपे गन्तुं यातुमैहत अवाञ्छत् ॥ २७०
कल्याणमल्लभूमीशं प्रणम्य विहिताञ्जलिः।
मन्त्री विज्ञपयामास वाञ्छितं वद मां विभो! ॥ २७१ व्याख्या-मन्त्री श्रीकर्मचन्द्रः, कल्याणमल्लभूमीशं प्रणम्य प्रणामं कृत्वा, विहिताञ्जली रचिताञ्जलि:- 'अञ्जलिमुकुलितकमलाकारौ पाणी।' इतीति गम्यत इति विज्ञपयामास तोषयामास । इतीति किम् ? हे विभो! प्रभो। वाञ्छितमिष्टं वद कथय । किमिष्टं विभोः सम्पादयामीति मां निवेदयेत्यर्थः । विज्ञपयामासेति 'मारणतोषणनिशानेषु ज्ञेति मित्त्वे हृखत्वम् , मारणे संज्ञपयति शत्रुम् , तोषणे विष्णुं विज्ञपयाम्यहम् , निशाने प्रज्ञपयति शस्त्रम् ॥ २७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org