________________
४२ मत्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[२५३-२५९ चैत्यं शत्रुञ्जये जैनमकार्षीत् पुण्यवृद्धये ।
योऽन्यत्क्षेत्रं शुभं नास्मादिति निश्चित्य चेतसि ॥ २५३ व्याख्या- यः श्रीसङ्ग्राममन्त्री, चेतसि चित्त इति निश्चित्य निर्णीय, पुण्यवृद्धये सुकृतपुष्टये, शत्रुञ्जये विमलाद्रौ, जैनमाहतं चैत्यं विहारमकार्षीच्चकार । इतीति किम् ? अस्माच्चैत्यान्नान्यत् क्षेत्रं शुभम् । 'क्षेत्रं भरतादौ भगाङ्गयोः, केदारे । सिद्धभूपत्योः' - इत्यनेकार्थः। उपलक्षणं च केदारः । सस्यनिष्पत्तिस्थानस्य अधिकृते तु पुण्यधान्यनिष्पत्तिस्थानं क्षेत्रं गृह्यते ॥ २५३
दानशालां च यस्तेने दुर्भिक्षे भिक्षुकाक्षमे ।
क्षुत्क्षामकुक्षिलोकानां समुद्धरणबद्धधीः ॥ २५४ व्याख्या-यः सङ्ग्राममन्त्री, भिक्षुका भिक्षाका रङ्का भिक्षाया अप्राप्तेरक्षमा असमर्था यत्र तत्तस्मिन् भिक्षुकाक्षमे, 1" दुर्भिक्षे दुष्काले, क्षुधा बुभुक्षया, क्षामा कृशा, कुक्षिरुदरं येषामेवंविधा ये लोकास्तेषाम् , समुद्धरणे गलने, बद्धा नियोजिता धीबुद्धिर्येन स समुद्धरणबद्धधीः, एवंविधः सन् दानशाला सत्रशालां तेने विस्तारयामास ॥ २५४
पौषधशाला विपुला विनिर्मिता येन भूरिभाग्येन ।
मातु: पुण्यार्थं यन्माता मान्या सुधन्यानाम् ॥ २५५ व्याख्या-येन भूरिभाग्येन भूयिष्ठभागधेयेन श्रीसङ्ग्राममन्त्रिणा, मातुर्जनन्याः, पुण्यार्थ पुण्यकृते, विपुला विस्तीर्णा, । पौषधशाला विनिर्मिता । अन्तर्भूतण्यर्थत्वान्निर्मापिता कारिता । यद्यस्माद्धेतोः, सुधन्यानां सुष्ठपुण्ययुतानाम्, माता मान्या सत्करणीया । यतः
'आस्तन्यपानाजननी पशूनामादारलाभाच्च नराधमानाम् । आगेहकर्माणि च मध्यमानामाजीवितं तीर्थमिवोत्तमानाम् ॥१॥ ॥ २५५ चतुर्विंशतिवारान् यः स्वमातुः पुण्यवृद्धये ।
पुरे लम्भनिकां चक्रे रूप्यरौप्येण वैक्रमे ॥ २५६ __ व्याख्या- यः सङ्ग्राममन्त्री, स्वमातुरात्मीयजनन्याः, पुण्यवृद्धये सुकृतपुष्टये, चतुर्विंशतिवारान् , वैक्रमे पुरे, रौप्यरौप्येण राजतराजतेन, लम्भनिकां चके कारयामास ॥ २५६
शोभा यो जन्ययात्रायाचित्रकूटे निजेशितुः।
विवाहेऽन्यमहीशेभ्योऽधिकां चक्रेऽर्थितार्पणात् ॥ २५७ 25 व्याख्या- यः श्रीसङ्ग्रामः, चित्रकूटे, निजेशितुः श्रीकल्याणमल्लस्य, विवाहे पाणिपीडने, अन्यमहीशेभ्योऽपर
नृपेभ्यः, अधिकामतिशायिनी जन्ययात्रायाः शोभां लक्ष्मी चक्रे चकार । कस्माद् ? अर्थितानां यथाकामं याचितानां वर्णादीनामर्पणाद् दानादर्थितार्पणात् । 'जन्यो जामातृवत्सले जनके जननीये च' इति । जामातृवत्सले जामातृबन्धुवर्गे ॥ २५७
हाजीषां-हसनकुलीषानाभ्यां सह विधाय सन्धि यः।
निजराज्यजैनमन्दिरसाधर्मिकरक्षणं विदधे ॥ २५८ व्याख्या-यः सङ्ग्राममन्त्री, हाजीपां-हसनकुलीषानाभ्यां सह सन्धि सन्धानमेकत्वम् , विधाय कृत्वा, निजराज्यजैनमन्दिर-साधर्मिकरक्षणं खसाम्राज्यजैनविहार-समानधर्मावनं विदधे चक्रे ॥ २५८
एवं श्रीजिनशासनसमुन्नतिं सर्वतः समाधाय । अकलङ्क: कलिकाले कालवशोऽभूत् स पुण्यात्मा ॥ २५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org