________________
४० मबिकर्मचन्द्रवंशावलीप्रबन्ध ।
[ २४१-२४६ व्याख्या-यः सङ्ग्राममन्त्री याचकसार्थ वनीपकसङ्घम् , वर्णाश्ववस्त्रदानाचैर्हेमवाजियसनवितरणादिभिः, सार्थ सधनम् , विदधे चक्रे । यः कीर्तिराशिरेव यशोराशिरेव तटिनी निम्नगा तां कीर्तिराशितटिनीमनिवारितोऽस्खलितः प्रसरः प्रवर्तनं यस्याः साऽनिवारितप्रसरा तामनिवारितप्रसरां कृतवान् ॥ २४०
यात्रां विधातुकामोऽयं येषु येषु पुरादिषु ।
जगाम तेषु सर्वेषु सचक्रे धार्मिकब्रजम् ॥ २४१ व्याख्या-अयं श्रीसद्धाममन्त्री, यात्रां विमलाद्विमुख्यतीर्थेषु विधातुकामः कर्तुकामः, येषु येषु पुरादिष्यादिशब्दाद ग्रामेषु जगाम अगच्छत् , पादावधारणमकरोदिति यावत् । यच्छब्दे पुनरावृत्तिर्न तच्छब्दे । यथा यो यो धूमवान् सोऽग्निमानित्यादिष्विवात्र तच्छन्दैकस्यैव प्रयोगः कविना प्रयुक्तः । तेषु सर्वेषु पुरादिषु, धर्म चरन्ति धार्मिकास्तेषां व्रजं वृन्दं सच्चके लम्भनिकादानेन सत्कृतवान् ॥ २४१
यस्मिन् यस्मिन् पुरेऽगच्छत् तत्र तन्नगरेशिता।
सम्मुखागमनेनास्य प्रवेशोत्सवमातनोत् ॥ २४२ व्याख्या-सघाममन्त्री तीर्थयात्रायाम् , यस्मिन् यस्मिन्निति सामान्यतः प्रयोगस्तेषां पुराणां बहुत्वसूचकः, यस्मिन् यस्मिन् पुर उपलक्षणाद् ग्रामेऽगच्छत् तत्र पुरे ग्रामे च, तन्नगरेशिता तत्पुरनायकः, उपलक्षणाद् ग्रामनायकश्च, अस्य श्रीसराममन्त्रिणः सम्मुखागमनेनाभिमुखसमागमनेन, प्रवेशोत्सवं पादप्रसारमातनोद् विस्तारयामास ॥ २४२
वलमानो महामन्त्री चित्रकूटमुपागतः।
रानकोदयसिंहेन विशिष्य बहुमानितः ॥ २४३ व्याख्या-वलमानस्तीर्थयात्रातो व्याघुट्य आगच्छन्, महामन्त्री श्रीसनाम:, चित्रकूटमुपागतः प्राप्तः सन् , रामकोदयसिंहेन राणोदयसिंहेन, विशिष्य विशेषेण बहुमानितः सत्कृतः ॥ २४३
ग्रामव्रजान् गजानश्वान् स्वामिधर्मधनाग्रणी।
सञ्जग्राहाग्रहाद् ग्राह्यमाणानपि न योऽमुना ॥ २४४ व्याख्या-यः श्रीसद्राममन्त्री, अमुना उदयसिंहेन, आग्रहादनुग्रहेण, ग्रामव्रजान् मामसमूहान् , तथा गजान् हस्तिमः, तथा अश्वान् वाजिनः, ग्राह्यमाणानपि स्वीकार्यमाणानपि, न सञ्जग्राह न अगृह्णात् । राणोदयसिंहेन बहूक्तं यद्-'हे महामनिन् । एतान् ग्रामादीन् त्वं स्वीकुरु', परमसौ न स्वीकृतवान् । तत्र हेतुमाह - यतः किम्भूतः! खामिनो धर्मः स्वामिधर्मः स एव
धनं येषां ते खामिधर्मधनास्तेषां मध्येऽप्रणीर्मुख्यः खामिधर्मधनामणीः, अयमधिकः खामिधर्मेत्यर्थः । यो हि स्वामिधर्मा भवति 15 स परकीयग्रामादिग्रहणेन न परसेवां विदधीत । अत एवासौ तबाह्यमाणानपि तान् न स्वीचकारेति तात्पर्यार्थः । 'आग्रहोऽनुग्रहे ग्रहे, आसङ्गाक्रमणयोः' इति ॥ २४४
राज्ञा कल्याणमल्लेनाप्रतिमल्लेन तेजसा । आहूतः सन् समं वार्ता कृत्वा श्रीमालभूभुजा ॥ २४५ सेनापरिवृतः प्रौढप्रतिभाप्रतिभोऽधिकम् ।
मध्यदेशमनाध्यास्याऽऽययौ यो निजमण्डले ॥ २४६ - युग्मम् । व्याख्या-यः सङ्ग्राममन्त्री कल्याणमल्लेन राज्ञा नृपेण, आहूत आकारितः सन् , अन्तराले श्रीमालभूमुजा मालदेवेन समं वातो किंवदन्ती कृत्वा, सेनापरिवृतश्चमपरिकरितः सन् , मध्यदेश योधपुरदेशमनाध्यास्य अनधिष्ठाय, मध्यदेशेऽवस्थानमकृत्वेत्यर्थः, निजमण्डल आत्मीयदेशे जङ्गल आययावायासीत् । किम्भूतेन कल्याणमल्लेन ! तेजसा प्रतापेन अप्रतिमल्लेन असदृशेन अधिकतेजखिनेत्यर्थः। किम्भूतो मन्त्री ! प्रौढा शास्त्रप्रवणात् प्रवृद्धा या प्रतिभा विषणा तया प्रतिभाति 35 शोभत इति प्रौढप्रतिभाप्रतिभः, अधिकमतिशयेन, यत एव बुद्धिमानत एव परैः सह अन्यामेव वाता विधाय, अन्यदेव
खहितं कर्म अकार्षीदिति तत्त्वम् ॥ २४५-२४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org